________________
सुपासनाह - चरिअस्मि -
कोसंववज्जाणे पत्तो सिरिविजयसूरिपयपासे । गिण्हइ विहिणा दिक्ख सिक्खपि दुहावि सो धीरो || सिरिसंखनरिंदोवि हु अट्ठाहियमाइयं जणयकिच्चं । काऊण विहाणेण सावयधम्मम्मि दढचित्तो ॥ १०० ॥ पालइ पयावकलिओ पयाउ सुपयत्तओ तओ कम्हा | अन्नम्म दिने निसुणइ सीहदुवारम्मि गुरुरोलं ॥ विविहगुरुवाहिविहुरियदेहाण जणाण दीणकरुणयरं । सोउं राया पुच्छर पडिहारं केसिमो सहो ? || १०२॥ सो भइ देव ! दारे दुरंतदुरिओहपीडियंगाणं | जरियाणं कुट्ठीणं खईण खासीण सिंभीणं ॥ १०३ ॥ . एमाइरोगियाणं नाणादेसागयाण एस सरो। सीहदुवारठियाणं तुह कित्ति निसुणिउं एवं ॥ १०४ ॥ जं जं पिच्छइ देवो करुणाभर मंथराए दिट्ठीए । तं तं रोगवित्तं करेइ गुरुरोगजुत्तंपि ॥ १०५ ॥ तो भणिओ पडिहारो रन्ना सव्वंपि रोगिसंघायं । आणावसु जह सिग्धं आगच्छइ वग्गठवणाए || पढमं कुट्ठियवग्गो जरीण वग्गो कमेण सव्वेवि । काऊण वगवगं समागया रायपासम्म || १०७ || पढमवगो निवेण भणिओ महुमज्जमंसमाईण । कायव्वा भो विरई जावज्जीवपि सम्पत्तं ॥ १०८ ॥ केसिपि हु पढमत्रयं वयवयाईवि के सिमुद्दिसिउं । अवलोइया य सव्वे करुणारससरस दिट्ठीए॥ १०९ ॥ तो तक्खणेण मुका सव्वे सव्वैहिं उग्गरोगेहिं । चइउं निकाइयकम्मे, वियणा ताणवि कया अप्पा || एवं परं पसिद्धिं पत्तो थेवेहिं चैव दियहेहिं । पट्टमहादेवीए जायं पुत्तं उत्रिय रज्जे ॥ १११ ॥ जिणसासणप्पभावणपुव्वं गिण्हेइ सव्वओ विरई । संपत्तकेवलो सो कमेण पत्तो सिवसमिद्धिं ॥ ११२ ॥
५७६
कोशाम्बवनोद्याने प्राप्तः श्रीविजय सूरिपदपार्श्वे । गृह्णाति विधिना दीक्षां शिक्षामपि द्विवापि स धीरः ॥ ९९ ॥ श्रीशङ्खनरेन्द्रोऽपि ह्यष्टाहिकादिकं जनककृत्यम् । कृत्वा विधानेन श्रावकधर्मे दृढचित्तः ॥ १०० ॥ पालयति प्रतापकलितः प्रजाः सुप्रयत्नतस्ततोऽकस्मात् । अन्यस्मिन्दिने शृणोति सिंहद्वारे गुरुकलकलम् ॥ विविधगुरुव्याधिविधुरितदेहानां जनानां दीनकरुणतरम् । श्रुत्वा राजा पृच्छति प्रतीहारं केषामयं शब्दः ? || स भणति देव ! द्वारे दुरन्तदुरितौत्रपीडिताङ्गानाम् । ज्वरितानां कुष्ठिनां क्षायेणां कासिनां श्लेष्मिणाम् ॥ एवमादिरोगिणां नानादेशागतानामेप स्वरः । सिंहद्वारस्थितानां तव कीर्त्ति श्रुत्वैवम् ॥ १०४॥
यं यं पश्यति देवः करुणाभरमन्थरया दृष्ट्या । तं तं रोगवियुक्तं करोति गुरुरोगयुक्तमपि ॥ १०५ ॥ ततो भणितः प्रतिहारो राज्ञा सर्वमपि रोगिसंघातम् । आनायय यथा शीघ्रमागच्छति वर्गस्थापनया ॥ १०६ ॥ प्रथमं कुष्ठिवर्गो ज्वरिणां वर्गः, क्रमेण सर्वेऽपि । कृत्वा वर्गवर्ग समागता राजपार्श्वे ॥१०७॥ प्रथमवर्गो नृपेण भणितो मधुमद्यमांसादीनाम् । कर्त्तव्या भो विरतिर्यावज्जीवमपि सम्यक्त्वम् ॥१०८॥ केषामपि खलु प्रथमत्रतं द्वितीयत्रतादीन्यपि केषामुद्दिश्य । अवलोकिताश्च सर्वे करुणारससरसदृष्टया ॥१०९॥ ततस्तत्क्षणेन मुक्ताः सर्वे सर्वैरुग्ररोगैः । त्यक्वा निकाचितकर्मणो, वेदना तेषामपि कृताल्पा ॥ ११० ॥ एवं परां प्रसिद्धिं प्राप्तः स्तोकैरेव दिवसैः । पट्टमहादेव्यां जातं पुत्रं स्थापयित्वा राज्ये ॥ १११ ॥ जिनशासनप्रभावनापूर्वं गृह्णाति सर्वतो विरतिम् । संप्राप्त केवलः स क्रमेण प्राप्तः शिवसमृद्धिम् ॥१९२॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org