________________
सुपासनाह-चरिअम्मितत्थ य विम्हयवसवियंसमाणनयणेण तेण संगीओ। तुह चेव गुणरगामो तह कहवि हु जेण तव्वेलं ॥२५६। रइरमणसरासणवाणवरिसणज्झासठाणमणुपत्ता । जयसुंदरी सुणंती तमसरिस तुह गुणग्गामं ॥२५७॥ तो तक्खणेण मुच्छानिमीलियच्छिमहीयलुच्छंगे । अच्छुक्कुत्थरियमहल्लबाहभरनीसहा पडिया ॥२५८॥ तोसे सहीओकाओवि हिंयं मदंति काओवि कुणंति। सिरिखंडरसनिसेयं काओवि वीयंति वियणेहि।।२५९। परियणकरुणाइव तो कहपि विविहोवयारविहवेण । पञ्चागयचेयन्ना संजाया सा ससंकमुही ॥२६०॥ एत्थंतरम्मि बहने समागया खेयरा तहिं भवणे । जिणपडिमं पणमेउं एयावत्था य सा तत्थ ॥२६१॥ दिट्टा उत्तरसेढीवइणो तणएण कणयचूडेण । तो सो तव्वेलं चिय गहिओ मयणग्गहेण दढं ॥२६२॥ किं बहुणा, फुटृति हारमुत्तामणीउ लायव्व जम्मि सयखंडं । सो दाहजरो सहसा वियंभिओ तस्स देहम्मि ॥२६३। जयसुंदरीविएत्तो कहवि हुसंवाहिउंसहियणेण । नियपिउगिहम्मि नीया तत्थवि तुममेव चिंतेती ॥२६४। न रसं रसेइ न रवं सुणेइ न हु गंधयं च गेण्हेइ। नय रूबंपि निरूवइ न किंपि फासंपि सामुणइ ॥२६॥ एत्थंतरम्मि संगाममूररायस्स पासमल्लीणो । सिरिकणयचूडपियरेण पेसिओ महुयरो दूओ ॥२६६॥ अब्भागयजणपडिवत्तिनिउणरन्नाविदावियं विउलं । कणयमयमासणं तस्स सोवि नमिऊण उवविठ्ठो ॥२६७/ तो दृएणं भणियं जह एवं भणइ कणयचूडपिया । वियरिजउ जयसुंदरिकन्ना सिरिकणयचूडस्स ॥२६८॥ रतिरमणशरासनबाणवर्षणाध्यासस्थानमनुप्राप्ता । जयसुन्दरी शृण्वती तमसदृशं तव गुणग्रामम् ॥२७॥ ततस्तत्क्षणेन मूर्छानिमीलिताक्षिमहीतलोत्सङ्गे । अक्षिकूपतुलोत्सृतमहाबाष्पभरनिःसहा पतिता ॥२५॥ ततस्तस्याः सख्यः का अपि हृदयं मर्दयन्ति का अपि कुर्वन्ति। श्रीखण्डरसनिषेकं का अपि वीजन्ति व्यजनैः।२५९। परिजनकरुणयेव ततः कथमपि विविधोपचारविभवेन । प्रत्यागतचैतन्या संजाता सा शशाङ्कमुखी ॥२६॥ अत्रान्तरे बहवः समागताः खेचरास्तस्मिम् भुवने । जिनप्रतिमां प्रणन्तुमेतदवस्था च सा तत्र ॥२६१॥ दृष्टोत्तरश्रेणीपतेस्तनयेन कनकचूडेन । ततः स तद्वेलमेव गृहीतो मदनग्रहेण दृढम् ॥२६२॥ किं बहुना, स्फुटन्ति हारमुक्तामणयो लाता इव यस्मिंशतखण्डम्। स दाहन्वरः सहसा विजृम्भितस्तस्य देहे ॥२६३॥ जयसुन्दर्यपीतः कथमपि किल संवाह्य सखीजनेन । निजपितृगृहे नीता तत्रापि त्वामेव चिन्तयन्ती ॥२६४॥ न रसं रसति न रवं शृणोति न खलु गन्धं च गृह्णाति । नच रूपमपि निरूपयति न कमपि स्पर्श च सा जानाति॥२६५॥ अत्रान्तरे संग्रामशूरराजस्य पार्श्वमालीनः । श्रीकनकचूडपित्रा प्रेषितो मधुकरो दूतः ॥२६६॥ अभ्यागतजनप्रतिपत्तिनिपुणराजेनापि दापितं विपुलम् । कनकमयमासनं तस्मै सोऽपि नत्वोपविष्टः ॥२६७।। ततो दूतेन भणितं यथैवं भणति कनकचूडपिता । वितीर्यतां जयसुन्दरी कन्या श्रीकनकचूडाय ॥२६८॥ ततो नरवरेण भणितं रतिमदनयोरिवानयोः संबन्धम् । को न बहु मन्यते किन्तु तस्या जननीह प्रमाणम् ।।२६९।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org