________________
१९२
सुपासनाह-चरिअम्मिवंदइ भत्तीए मुणिं तत्तो संहरिय हथिणो रूवं । सो पच्चक्खो जक्खो जाओ चलकुंडलाहरणो ॥२८४॥ तत्तो सो मुणिवइणा भणिओ तं कुमरमणुसरेऊण । नियपडिपोत्तयमेयं समागओ गयवरो होउं ॥२८५।। इह आणीओ पुव्विं एसो कणगरहरायरक्खट्ठा । संपइ नियनयरं पइ नेउ एयं तुहुच्छाहो ॥२८६॥ तो जक्खेणं भणियं एवमिणं नाह! मज्झ एस निवो । कणगरहो पुव्वभवम्मि नत्तुओ आसि मह जेण ।। किञ्च । विनवियव्वमिमं पुण पुव्वं अंगीकएवि सम्मत्ते । पासंडियसंसग्गी अग्गीव निरग्गला लग्गा ॥२८८॥ मह मणभवणे तेण दड्ढा सम्मत्तरयणवररिद्धी । हद्धी जाओऽणिद्धी वंतरजोणीए जक्खो हं ॥२८९॥ काउं पसायमिण्हि आरोवह मज्झ नाह ! सम्मत्त । कणगरहरक्खसाईहिं भणियमम्हपि इइ होउ ॥२९०॥ तो मुणिणा सम्मत्तं दिन्नं निवजक्खरक्खसाईणं । कुमरेण पुणो भणियं मज्झ विसोहिं पहु ! पयच्छ । जेण मए लहिऊणं कहवि कुलग्गेण नाह! सम्मत्तं । पासंडिकुसंगेणं पुणोवि विहियं सअइयारं ॥२९२॥ तप्पंकेणं मलिणं निम्मलपच्छित्तदाणसलिलेण । मज्झ मण पक्खालसु मुणिणावि तहेव तं विहियं ।२९३। तो निम्मलसम्मत्तो कुमरो मुणिपायवंदणं काउं । कणगरहरायभवणे रक्खसमाईहिं सह पत्तो ॥२९४॥ कणगरहोवि य राया अमञ्चसामंतमंतिपरिकलिओ। पणमिय भणइ कुमारं सबमिणं तुम्ह माहप्प।।२९५॥ जं जीविज्जइ जा रज्जसंपया ज च एस पुरलोओ। जं एयस्स य लच्छीविच्छड्डो जं च सम्मत्तं ॥२९६॥ तो एस जणो तुह कुमर ! किंकरो जहरिहम्मि कज्जम्मि। तह वावारियव्वो अणुग्गहीओ जहा होइ ॥२९७॥
ततः स संकोच्य कर तत्क्षणनोपशान्तः । त्रिः प्रदक्षिणां कृत्वा मुनिपतेः परिषत्सहितस्य ॥२८॥ वन्दते भक्त्या मुनिं ततः संहृत्य हस्तिनो रूपम् । स प्रत्यक्षो यक्षो जातश्चलकुण्डलाभरणः ॥२८४॥ ततः स मुनिपतिना भणितस्त्वं कुमारमनुसृत्य । निजप्रतिपौत्रकमेतं समागतो गजवरो भूत्वा ॥२८॥ इहानीतः पूर्वमेष कनकरथराजरक्षार्थम् । संप्रति निजनगरं प्रति नेतुमेतं तवोत्साहः ॥२८६॥ ततो यक्षेण भणितमेवमिदं नाथ ! ममैष नृपः । कनकरथः पूर्वभवे नप्ताऽऽसीद् मम येन ॥२८७॥ विज्ञपयितव्यमिदं पुनः पूर्वमङ्गीकृतेऽपि सम्यक्त्वे । पाखण्डिसंसक्तिरग्निरिवार्गला लग्ना ॥२८८॥ मम मनोभवने, तेन दग्धा सम्यक्त्वरत्नवरद्धिः । हा धिग् जातोऽनृद्धिय॑न्तरयोनौ यक्षोऽहम् ॥२८९॥ कृत्वा प्रसादमिदानीमारोपय मम नाथ ! सम्यक्त्वम् । कनकरथराक्षसादिभिर्भणितमस्माकमपीति भवतु।।२९०॥ ततो मुनिना सम्यक्त्वं दत्तं नृपयक्षराक्षसादीनाम् । कुमारेण पुनर्भणितं मम विशुद्धिं प्रभो ! प्रयच्छ ॥२९१॥ येन मया लब्ध्वा कथमपि कुलग्ने नाथ! सम्यक्त्वम् । पाखण्डिकुसङ्गेन पुनरपि विहितं सातिचारम् ॥२९२॥ तत्पङ्केन मलिनं निर्मलप्रायश्चित्तदानसलिलेन । मम मनः प्रक्षालय मुनिनापि तथैव तद् विहितम् ॥२९॥ ततो निर्मलसम्यक्त्वः कुमारो मुनिपादवन्दनं कृत्वा । कनकरथराजभवने राक्षसादिभिः सह प्राप्तः ॥२९४॥ कनकरथोऽपि च राजाऽमात्यसामन्तमन्त्रिपरिकलितः। प्रणम्य भणति कुमारं सर्वमिदं तव माहात्म्यम् ॥२९॥ यज्जीव्यते या राज्यसंपद यच्चैष पुरलोकः । यदेतस्य च लक्ष्मीविस्तरो यच्च सम्यक्त्वम् ॥२९६॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org