________________
देवद्रव्योपभोग कुपरिणाम :देवद्रव्योपभोगेन घोरां यास्यति दुर्गतिम् ॥५२॥ निश्चित्येत्यवदद् भ्रातः श्वभ्रपातकात् । न किं बिभेषि यद्देव-द्रव्यभोगमपीच्छसि ॥५३॥ देवद्रव्येण यत्सौख्यं यत्सौख्यं परदारतः । अनन्तानन्तदुःखाय तत्सौख्यं जायते ध्रुवम् ॥५४॥ वरं सेवा वरं दास्यं वरं भिक्षा वरं मृतिः । निदानं दीर्घदुःखानां न तु देवस्वभक्षणम् ॥५६॥ कुटुम्बं सकलं क्षीणं दैवस्वेनैव पोषितम् ॥८६॥ देवद्रव्योपभोगेन कुटुम्बस्य क्षयो भवेत् ॥८७॥
जिनपूजा परद्रव्येणापि :विधायाष्टाह्निकां नाग-नामग्राहं जगत्पतेः पूजाभोगादि सत्कृत्यैः स निधानार्धमव्ययत् ॥७६ ॥
देवद्रव्येण देवपूजनम् :साध्विदं विवधदे देवद्रव्यं यद्देवपूजने व्ययितम् ॥१२॥ दीयमानं सुकृतं:- अतो यातास्मि तत्रैव परं यात्राद्वयस्य मे । प्रत्यब्दं सुकृतं देयं प्रपेदे सोऽपि तद्वचः ॥१४॥ यतः-यद्वस्तु दीयते चेत्तत् सहस्रगुणमाप्यते । तद्दते सुकृते पुण्यं पापे पापं च तद्गुणं ॥१५॥ दीयमानं धनं किञ्च धनिकस्यापचीयते । सुकृतं दीयमानं तु धनिकस्योपचीयते ॥१६॥ श्राव्यते सुकृतं याव-द्योन्तकालेऽपि तावतः । निजश्रद्धानुमानेन स तदैवाश्नुते फलम् ॥१७॥ ततः श्रावयिता पश्चा-द्विधत्ते मानितं यदि तदा सोऽप्यनृणः पुण्य-भाग्भवेदन्यथा न तु ॥९८॥ अश्रावितोऽपि श्रद्धते सुकृतं यः क्वचिद्गतौ । जानन् ज्ञानादिभावेन सोऽपि तत्फलमाप्नुयात् ॥१९॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org