SearchBrowseAboutContactDonate
Page Preview
Page 780
Loading...
Download File
Download File
Page Text
________________ ज्ञानं प्रदातुं प्रवणा ममातिशयालुनाना भवपातकानि ।। त्वं नेमुषां भारति पुंडरीकशयालुनाना भवपातकानि ॥५॥ प्रौढप्रभावा समपुस्तकेन ध्यातासि येनांवि विराजीहस्ता ॥ प्रोदप्रभावा समपुस्तकेन विद्यासुधापूरमदूरदुःखाः ॥ ६॥ तुभ्यं प्रणामः क्रियते मयेन मरालयेन प्रमदेन गातः ॥ कीर्तिप्रतापौ भुवि तस्य नम्रमरालयेन प्रमदेन वातः ॥ ७ ॥ रुच्यारविंदभ्रमदं करोति वेलं यदीयोऽर्चति तेऽहियुग्मं ॥ रुच्यारविंदभ्रमदं करोति स स्वस्य मोष्ठी विदुषां प्रविश्य ।। ८॥ पादप्रसादात्तव रूपसंपत् लेखाभिरामोदितमानवेशः ॥ अवेन्नरः सूक्तिभिरंब चित्रोल्लेखाभिरामोदितमानवेश ॥ ९ ॥ सितांशुकांते नयनाभिरामां मूर्ति समाराध्य भवेन् मनुष्यः। सिताशुकांत नयनाभिरामांधकारसूर्य क्षितिपावतंसः ॥१०॥ येन स्थितं त्वामनु सर्वतीयः सभाजितामानतमस्तकेन । दुर्वादिनां निर्दलितं नरेंद्र-सभाजितामानतमस्तकेन । ११ ।' सर्वज्ञवक्रवरतामरसांकलीना मालींनती प्रयणमंथरया दशैव ॥ सर्वज्ञवक्रवरतामसमंकाना प्राणात विश्रुतयशाः श्रुतदेवता नः ॥१२॥ कृतस्तुतिनिबिडभक्तिजडपृक्तैर्गुफैगिरामितिगिरामधिदेवता सा ।। बालोऽनुकंप्य इतिरोपयतु प्रसादस्मेरां दृशं मयि जिनप्रभसूरिवण्यो ॥२३॥ ત્યારપછી આરાત્રિક (આરતી ઉતારવી. અને પછી નીચે પ્રમાણે ગતમાસ્ટક બેલી દાન દેવું. श्रीइंद्रभूत्रिं वसुभूतिपुत्रं । पृथ्वीभवं गौतमगोत्ररत्नं ॥ स्तुवंति देवासुरमानवेंद्रा । स गौतमो यच्छतु वांछितं मे ॥१॥ श्री वद्धमानात् त्रिपदामवाप्य । मुहुत्तेमात्रेण कृतानि येन ॥ अंगानि पूर्वाणि चतुर्दशापि । स गौतमो यच्छतु वांछितं में ॥ २॥ श्रीवीरनाथेन पुरा प्रणीतं । मंत्रं महानंदमुखाय यस्य ॥ ध्यायंत्यमी सूरीवराः समग्राः । स गोतमो यच्छतु वांछितं मे ॥३॥ यस्यामिधानं मुनयोऽफि सर्वे । गृह्णन्ति भिक्षा भ्रमणस्य काले । मिष्टान्नपानांबरपूर्णकामाः। स गौतमो यच्छतु वांछितं मे ॥ ४ ॥ अष्टापदादौ गगने स्वशक्त्या । ययौ जिनानां पदवंदनाय ।। निशम्य तितिशयं सुरेभ्यः। स गौतमो यच्छतु वांछितं मे ॥५॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003207
Book TitleTattvanirnaya Prasada
Original Sutra AuthorN/A
AuthorAtmaramji Maharaj
PublisherAmarchand P Parmar
Publication Year1902
Total Pages878
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy