________________
५१०
तत्त्वनिर्णयप्रासादऋषभादरतो जज्ञे वीरपुत्रशतायजः॥
अभिषिच्य भरतं राज्ये महाप्रव्रज्यमाश्रितः ।। २ ।। २॥ इह हि इक्ष्वाकुकुलवंशोद्भवेन नाभिसुतेनमरुदेव्यानंदन.
महादेवेन ऋषभेण दशप्रकारो धर्मः स्वयमेवाचीर्णः केवल ज्ञानलाभाच प्रवर्तितः ॥ [ ब्रह्मांडपुराणे ] ३॥ युगेयुगे महापुण्या दृश्यते द्वारिका पुरि ॥
अवतीर्णो हरियंत्र प्रभासे शशिभूषणं ॥ १ ॥ रेवताद्रौ जिनो नेमियुगादिर्विमलाचले ॥ ऋषीणामाश्रमादेव मुक्तिमार्गस्य कारणम् ॥२॥ पद्मासनसमासीनः श्याममूर्तिर्दिगंबरः॥
नेमिनाथ शिवेत्याख्या नाम चक्रेस्य वामनः॥३॥ ४॥वामनावतारोह-“वामनेन रैवते श्रीनेमिनाथाये बलिबंधन
सामर्थ्यार्थ तपस्तेपे ॥” इतितत्रकथास्ति ॥ ५॥ ईशो गौरीप्रति
कलिकाले महाघोरे सर्वकल्मषनाशनः ॥ दर्शनात् स्पर्शनादेव कोटियज्ञफलप्रदः॥ १६ उज्जयंतगिरौ रम्ये माघे कृष्णचतुर्दशी ॥
तस्यां जागरणं कृत्वा संजातो निर्मलो हरिः॥२॥इत्यादि। [प्रभासपुराणे ]
६॥कैलासे पर्वते रम्ये वृषभोयं जिनेश्वरः॥ - चकार स्वावतारं यःसर्वज्ञः सर्वगः शिवः॥१॥[शिवपुराणे]
७॥ स्कंदपुराणे १८ सहस्रसंख्ये नगरपुराणे अतिप्रसिद्धनगरस्थापनादिवक्तव्यताधिकारे भवावताररहस्ये षट्सहस्रैः श्रीऋषभचरित्र समग्रम स्ति तत्र ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org