SearchBrowseAboutContactDonate
Page Preview
Page 146
Loading...
Download File
Download File
Page Text
________________ द्वितीयस्तम्भः । अहोरूपमहोरूपमिति प्राह पुनः पुनः ॥ ततः प्रणामनयां तां पुनरेवाभ्यलोकयत् ॥ ३५ ॥ अथ प्रदक्षिणं चक्रे सा पितुर्वरवर्णिनी ॥ पुत्रेभ्यो लज्जितस्यास्य तद्रूपालोकनेच्छया ॥ ३६ ॥ आविर्भूतं ततो वक्रं दक्षिणं पाण्डु गण्डवत् ॥ विस्मयस्फुरदोष्ठं च पाश्चात्यमुद्गात्ततः ॥ ३७ ॥ चतुर्थमभवत्पश्चाद्वामं कामशरातुरम् ॥ ततोन्यदभवत्तस्य कामातुरतया तथा ॥ ३८ ॥ उत्पतन्त्यास्तदाकारा आलोकनकुतूहलात् ॥ सृष्ट्या यत्कृतं तेन तपः परमदारुणम् ॥ ३९ ॥ तत्सर्वं नाशमगमत् स्वसुतोपगमेच्छया || तेनोर्ध्वं वक्रमभवत्पंचमं तस्य धीमतः आविर्भवज्जटाभिश्च तद्वक्रं चाटणोत्प्रभुः ॥ ४० ॥ ततस्तानब्रवीद्ब्रह्मा पुत्रानात्मसमुद्भवान् ॥ प्रजाः सृजध्वमभितः सदेवासुरमानुषीः ॥ ४१ ॥ एवमुक्तास्ततः सर्वे ससृजुर्विविधाः प्रजाः ॥ गतेषु तेषु सृष्टार्थं प्रणामावनतामिमाम् ॥ ४२॥ उपयेमे स विश्वात्मा शतरूपामनिंदिताम् ॥ सम्बभूव तया सार्द्धमतिकामातुरो विभुः ॥ सलजां चकमे देवः कमलोदरमन्दिरे ॥ ४३ ॥ यावदष्टशतं दिव्यं यथान्यः प्राकृतो जनः ॥ ४३ ततः कालेन महता तस्याः पुत्रोऽभवन्मनुः ॥ ४४ ॥ भाषा - प्रथम ब्रह्माजी लोककी रचनाके निमित्त बडी सावधानीसें हृदयमें सावित्रीको धारण करके उसको जपते हुए पापरहित देहको भेदन करके Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003207
Book TitleTattvanirnaya Prasada
Original Sutra AuthorN/A
AuthorAtmaramji Maharaj
PublisherAmarchand P Parmar
Publication Year1902
Total Pages878
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy