________________
प्रस्तावना
(२) मत्रराजरहस्यं 'लीलावती' वृत्तिसहितम् । (३) वर्धमान विद्याकल्पः ' ।
त्रिशतीलीलावत्यादिविविधगणितावलोकनपुरस्सरं गणिततिलकवृत्तेः प्रणेतॄणां श्रीसिंह तिलकसूरीणां गणितविषये प्रचुरा प्रीतिरासीदित्येतस्या आवृत्तेः पाठका एव साक्षिदायिनः । श्रीसिंहतिलकसूरिभिर्गणिततिलकसौ विविधा ग्रन्था उल्लिखिताः यथाहि - (१) श्रीधरकृता त्रिशती
७७
१ भाण्डारकर प्राच्यविद्या संशोधन मन्दिरेऽस्या एका 323 / A 1882-83 इति क्रमाङ्कका प्रतिर्विद्यते । तत्र प्रारम्भिक उल्लेख एवम् -
"1150 11
वक्ष्याम्यथानुषंगात्प्रणवः परमर्द्धिसिद्धिपदमेकं । पंचइलं रजावज्जीवं तु तह अहिणा ॥ ७७ ॥ नडमीपइ प्रदीपात्पर्वण्यस्याष्टयुतशतस्मृत्या । वर्ष यावत्सप्पैर्नहि दश्यः सूरिमंत्रोऽयं ॥ ७८ ॥ इत्यवचित्य बहुश्रुतमुखांबुजेभ्यो मयाऽऽत्मसंस्मृत्ये । श्रीवर्द्धमान विद्यायंत्रयुतं लिखितमिह किंचित् ॥ ७९ ॥
इति श्रीविबुधचंद्रसूरिशिष्य सिंहतिलकसूरिकृते वर्धमानविद्याकल्पे यंत्रलेखनविधिः । श्रीवीरजिनं नत्वा वक्ष्ये श्रीविबुधचंद्रपूज्यपदं गणिविद्यायुगपदतो यंत्रं परमेष्ठिविद्यायाः ॥ १ ॥ ”
अन्ते त्वित्थम् —
“क्षीरवृक्षवासनिक्षेप नित्यकृत्यादिसर्वमुपाध्यायमंत्रवत् ज्ञेयं । वाचनाचार्यप्रवर्तिन्योरेक एव मंत्र - लघुमंत्रोऽत्रापि प्राग्वत् । उपाध्यायचतुष्टयेन पदस्थापनादिनप्रतिपन्नं षइ (द) [व] ख (स्व) पि महावीरः कल्याणिकेषु यावद्यी ( ज्जी? ) वं विशेषतस्तपः कार्यं । प्रं. ५८ अ० १० ॥ २७ ॥ ६ ॥
राकापक्षीयास्त्वेवमाहुः । कंबलस्थस्य वाचनाचार्यपदार्हस्य दक्षिणकर्णे मंत्रं वर्द्धमान विद्यात्मकं न्यसेत् । स चायं । ॐ नमो भगवओ वद्धमाणसामिस्स जस्सेअं चक्कं जलंतं गच्छइ । आयासं पायालं लोयाणं भूयाणं हूए वा राणवारायं गणे वा जाणे वा वाहणे वा । बंधणे मोहणे थंभणे सब्वजीवसत्ताणं अपराजिओ भवामि स्वाहा ॥ प्रस्थानविधौ वक्ष्यमाणमेतद्यं च वार्पयेत् । इति वर्धमान विद्याकल्पस्तृतीयोऽधिकारः ॥ ग्रं. १७५ अक्ष २१६ ॥”
Jain Education International
२ श्रीमहावीराचार्यैर्गणितसारसङ्ग्रह सञ्ज्ञकायां खकीयायां कृतौ "धनं धनर्णयोर्वर्गो मूले स्वर्णे तयोः क्रमात्” (पृ. ६, श्लो. ५२ ) इति पतिपुरस्सरं येषां श्रीधराणां निर्देशोऽकारि ते एत एव स्युः। यदीदं मन्तव्यं स्वीक्रियते तर्हि एतेषां सत्तासमयः ७७५ तमशाकवीयाब्दान्नार्वाचीन इति फलति । कोलब्रुकमहाशयैः श्रीधरगुम्फितो लीलावतीसमानजातीयो गणितसारनामा ग्रन्थः समवलोकितः । तत्रत्या अपि श्रीधरा एत एव इति शङ्कर बाळकृष्ण दीक्षितमहोदयानां मतम् । प्रेक्ष्यतां तेषां भारतीयज्योतिःशास्त्राह्वायाः कृतेः २३० तमं पृष्ठम् । अस्मिन् पृष्ठे इदमपि सूचितं तैर्यदुत भास्क राचार्यैर्बीजगणितकाररूपेण जातकपद्धतेर्निर्दिष्टा प्रणेतारश्च श्रीधराः प्रस्तुता एव वर्तेरन् । आर्याच्छन्दो निबद्ध त्रिशतीपथमाणिका त्रिशतिका एभिरेव निरमायि पाण्डुदास प्रार्थनया ९१३ तमे शाकेऽब्दे । न्यायकन्दली निर्मातारः श्रीधरा एत एवेति सुधाकर द्विवेदी महाशयानां मतम् । ३ अङ्कगणित - क्षेत्र गणितेति विषयद्वयप्रतिपादिकेयं कृतिः । अस्यां स्तम्भोद्देशप्रत्युत्पन्नादिका ११ गणि ०
For Private & Personal Use Only
www.jainelibrary.org