SearchBrowseAboutContactDonate
Page Preview
Page 77
Loading...
Download File
Download File
Page Text
________________ ७६ प्रस्तावना संवद्गुणत्रयोदशवर्षे दीपालिपर्वसद्दिवसे । साह्लाददेवतोज्वलमनसा पूर्ति मयेदमानीतम् ॥ ६३ ॥" श्रीयशोदेवसूरिशिष्यविवुधचन्द्रसरिशिष्यश्रीसिंहतिलकसरिभिमनराजरहस्यं विरचितम् ।। प्रान्तस्थेनानेनोल्लेखेन ज्ञायते यदुतैतेषां श्रीयशोदेवसूरयः प्रगुरव आसन् । 'अञ्चल गच्छेऽपि श्रीसिंहतिलकनामानः सूरयः सञ्जाताः, परन्तु ते एभ्यो भिन्ना उपदेशचिन्तामणिप्रणेतृश्रीजयशेखरसूरीणां च प्रगुरवः। भुवनदीपकवृत्तिविधातॄणां सिंहतिलकेति नाम वर्तते । किमिमे प्रस्तुताः सिंहतिलकसूरय एव सन्ति न वेति निर्णयकरणे नाहमलम् , यथेष्टानां साधनानामनुपलब्धेः। गणिततिलकवृत्तेः प्रारम्भे मन्त्रराजरहस्यस्य चान्ते साह्लाददेवतापदनिर्देशोऽकारि श्रीसिंहतिलकमूरिभिः । अनेन साह्लाददेवताज्यां गणिततिलकवृत्तौ उल्लिखिता कुण्डलिनी देवता चैतेषामभीष्टदेवते इत्यनुमीयते ॥ श्रीसिंहतिलकसूरीणां कृतिततिः (१) गणिततिलकवृत्तिः। १ प्रेक्ष्यतां 'जेसलमेरीयभाण्डागारीयग्रन्थानां सूची' (पृ. ५८)।। २ दण्डायुधाम्भोनिधिचन्द्र(१४३६)सङ्ख्ये वर्षे खोपज्ञटीकासनाथोऽयं ग्रन्थो व्यरचि । ३ सन्तुल्यन्तां उपदेशचिन्तामणिप्रान्तस्थानि निम्नलिखितानि पद्यानि "भावारिनिष्कृततपःकरवालशाली, धर्मप्रभः सुगुरुराज इतो रराज । पीयूषबिन्दुसदृशाक्षरवाग्विलासः, श्रीसूरिसिंहतिलकश्च ततः प्रतीतः ॥ ६ ॥ तत्पनन्दनवन-कल्पद्रुमसमश्रियः। जयन्ति साम्प्रतं श्रीमन्-महेन्द्रप्रभसूरयः ॥ ७ ॥ यत्पाणिमाहुः कृतिनः श्रियश्च, गिरश्च मैत्रीघटनैकतीर्थम् । सम्पर्कतो यस्य जनो विनीतः, श्रीमांश्च धीमांश्च किमन्यथा स्यात् ? ॥८॥ येषां कीर्तिभरे भरेण धवलीकर्तुं जगत् प्रोद्यते नाभूत् कोऽपि स यो ददाति तमसस्त्रस्तस्य शश्वत्पदम् । भन्नाशस्य च तस्य निर्जितचरैर्दुर्वादिवृन्दैः स्फुरत् ___ कारुण्यैरिव वासभूमिरचला स्वीये मुखे दीयते ॥९॥ तेषां शिष्याः श्रीमन्-मुनिशेखरसूरयो नयोपेताः । श्रीजयशेखरसूरिः, श्रीसूरिमरुतुङ्गश्च ॥ १० ॥" ४ कलिकालसर्वज्ञश्रीहेमचन्द्रसूरिवरविरचिताया अभिधानचिन्तामणिसझकनाममालाया या व्युत्पत्तिरत्नाकरावा वृत्तिर्विद्यते तत्र श्रीसिंहतिलकसूरिपरिचयकारीणि पद्यानि वर्तन्ते इति मे स्मृतिः । सा प्रामाणिका स्यादप्रामाणिका वा । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003174
Book TitleGanittilakam Savrtuttikam
Original Sutra AuthorN/A
AuthorHiralal R Kapadia
PublisherOriental Research Institute Vadodra
Publication Year1937
Total Pages214
LanguageHindi
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy