________________
विरचितम्]
एकपत्रीकरणम् एकपत्रीकृते तस्मिन् , मित्र ! पत्रचतुष्टये।
यादृक् पत्रं भवेत् तादृक्, सत्वरं वद मे सखे ! ॥' - न्यास:-{००००००००२७००००००००००१३. } । अत्र एकशतस्य द्विकवृद्धा सप्तमासैश्चतुर्दश । अष्टमास्या शतद्वयस्य त्रिकवृद्ध्या अष्टचत्वारिंशत् । षण्मास्या शतत्रयस्य चतुष्कवृद्ध्या द्वासप्ततिः। द्वादशमास्या चतुःशत्याः पञ्चकवृद्ध्या चत्वारिंश- ५ दधि(क)द्विशती । एतानि गतसमयफलानि । एषामैक्यं चतुःसप्तत्यधि(क)त्रिशती, यथा ३७४ । तत्र मासवृद्ध्यैक्यभक्ते मासं प्रत्येकशतस्स द्वौ, शतद्वयस्य त्रिवृद्ध्या षट् , शतत्रयस्य चतुष्कवृझ्या द्वादश, शतचतुष्टयस्य पञ्चवृद्ध्या विंशतिः। आसां मासवृद्धीनां ऐक्यं चत्वारिंशत् । अनया चतुःसप्तत्यधि(क)त्रिशत्या भागे लब्धं नव मासा विंशतिभागाश्च सप्त, यथा{ : }। अत्र मासं प्रति चत्वा-१० रिंशद् द्रम्माश्चटन्ति । ततः चत्वारिंशता गुणिता नव जाता षष्ट्यधि(क)त्रिशती । चत्वारिंशद्गुणा विंशतिः सप्त भागा जाता अशीत्यधि(क)द्विशती। अस्या विंशत्या भागे लब्धं द्रम्माः चतुर्दश । एते षष्ट्यधि(क)त्रिशतीमध्ये क्षिप्ता जाताश्चतुःसप्तत्यधि(क)त्रिशती, यथा ३७४।...द्वौ....एतेन गतसमयेत्यादि गतकाल इत्यायातम् । मासलाभैक्यभावे चत्वारिंशल्लक्षणे शतेन ताडिते जाता चतुःसहस्री । १५ तत्र द्रविणयुतेरेकद्वित्रिपञ्चशतानां युतिः सहस्रम् । तेन विभक्ते लब्धं चत्वास शतफलम् , यथा ४ । अत्र मूलधनं सहस्रं प्रति चतुष्कवृद्ध्या समीकृतया मासं प्रति चत्वारिंशत् । ततोऽनया समीकृता वर्षमासाः "सविंशतेः सप्त भागागुणिताः पूर्ववल्लब्धं चतुःसप्तत्यधि(क)त्रिशती । एतद् गृहीत्वा धनी एतदिनप्रभृत्येकपत्रं करोति चतुष्कशतव्याजमिति ॥ अथ भिन्नोदाहरणमाह
एतैरेव प्रमाणानां, फलैः पादसमन्वितैः ।
मासैश्च त्र्यंशसहितै-रेकपत्रं सखे ! कुरु ॥ 1 .. .. .. ) । अत्र शतं द्वे शते इत्याद्यपरिवर्त एकद्विस्वरूपं ज्ञेयम् , न तु शतम् । ततोऽत्र शताधो भागानुबन्धत्वात् “छेद-२५ नेने"त्यादिना नव चतुश्छेदाः, यथा १२०९। द्वितीयाङ्के सप्तमासिके "छेद. नेप्ने"त्यादिना द्वाविंशतिस्त्रिछेदा, यथा {२} । एतेन गुणनाफलं भवति । १ अनुष्टुप् । २ 'विंशतिभागाः सप्त' इति प्रतिभाति । ३ इदमशुद्धस्थलम् । ४ अनुष्टुप् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org