________________
विरचितम् ] शेषमूलजातिः
४९ चतुर्गुणखगुणमूलयुतस्य दृश्यस्य-नवकस्य कृतमूलं व्यादि तस्मिन् पदमेकस्तेन युते दलिते-अर्धीकृते जातव्यादिके 'निजताडिते' निजेन यादिना ताडिते लवाभ्याम्-अंशाभ्यां हीनं रूपं तेन हृते यल्लब्धं द्वादशादि तदेव पुनरपि दृश्यं स्थाप्यम् । तत्र लवाश्चान्तरालस्था उक्तार्थत्वात् प्रयान्ति । पश्चात् तत्र दृश्ये पुनर्विधिः पदसमीप इत्यादिको विधिलवाद् भागं विनाऽन्यः कार्यः ॥ ५ अत्रोद्देशकवृत्ते उदाहरणमाह
मूलं नीलदलोत्पलच्छदचयात् कर्णावतंसीकृतात् ___ कान्तक्रीडनताडनान्निपतितं तल्पे यदा सुचवः। त्र्यंशी शेषभवौ च शेषकभवं मूलं च भूमौ गतं. ___ दृष्टं पत्रयुगं तदा कति दलं तद् ब्रूहि नीलोत्पलम् ॥ न्यासेनैवास्य व्याख्या-(मू शेल: शेमू } दृश्य २। पदस्य-शेषमूलस्य समीपं चतुर्गुणं दृश्यं द्वौ जाता अष्टौ । तत्र स्वगुणमूलं एकगुण एकस्तेन युतिः जाता नव । तत्र नवानां मूलं त्रयः । तत्र पदयुते पदमेकस्तेन युते जाताश्चत्वारः। दलिते-अर्धीकृते जातद्विके निजताडिते-द्विगुणिते जातचतुष्कके अत्र लवत्र्यंशद्वयस्य रूपस्य च यथा {3} "अंशच्छेदा"वित्यादिच्छेदयोस्कैिक-११ योर्विनिमये {3} | प्राच्याङ्क एकगुणः स एव । पराङ्के त्रिगुणे एको जातात्रयः। एभ्यः प्राच्यलवद्वयपाते जात एकस्त्रिच्छेदः। एतद् विलवरूपं तेन हृते "कृत्वा परीवर्तन"मित्यादिनोपरि त्रयः, अधश्च एकः, यथा {३ } । ततः सङ्गणनाविधिर्यथा-त्रिकेण प्राक् दृश्योत्थश्चतुष्को गुण्यते, जाता द्वादश, एकगुणा एकच्छेदभक्ता अपि द्वादशैव । पुनर्विधिरिति एते द्वादश लग्नान्तराललवत्वात् । २ प्रथमपदसमीपदृश्यं तच्चतुर्गुणा जाता अष्टचत्वारिंशत् । तत्रत्यगुणमूलयुते एकगुण एकयुते जाता एकोनपञ्चाशत् । तत्र कृतमूलके एकोनपञ्चाशतो वर्गरूपस्य मूलं सप्त । तत्र पदयुते पदमेकस्तेन युते जाता अष्टौ । दलिते जातचतुष्कके निजताडिते-चतुष्ककेनैव गुणिते जाताः षोडश । भागविधिहेतवो लवा न सन्तीति तत एव लब्धं षोडशदलं नीलोत्पलम् , यथा १६ ॥
अस्य घटना-षोडशवर्गस्य मूलं चत्वारि तल्पे पतितम् । ततः शेषस्यद्वादशकस्य त्र्यंशद्वयं-अष्टौ भूमौ पतितम् । ततः शेषस्य-चतुष्कस्य वर्गस्य मूलं द्वौ पतितम् । दृष्टं पत्रयुगम् , यथा {{} । एषां योगे जाताः पोडश ॥
NU
१ शार्दूलविक्रीडितम् ।
७ गणित.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org