________________
१
।८
४८ गणिततिलकम्
[श्रीपतिविनिमये {१६} । आदावष्टगुण एको जाता अष्टौ, अष्टगुणाः पञ्च जाताश्चत्वारिंशत् । पराङ्कपश्चगुण एको जाताः पञ्च, तथा (अष्टौ) पञ्चगुणा जाताश्चत्वारिंशत् । समच्छेदत्वात् अष्टानां मध्ये पश्चक्षेपे जातास्त्रयोदश चत्वारिंशच्छेदाः, यथा {१४} । ततस्तृतीयाङ्कस्य नवकस्य त्रयोदशमध्ये प्रक्रिया ५विनापि समच्छेदत्वात् क्षेपे जाता द्वाविंशतिश्चत्वारिंशच्छेदा । ततोऽस्य छेदस्य चतुर्थाङ्कच्छेदस्य च पञ्चभिरपवर्ते क्रमादष्टौ एकश्च जातः । ततः छेदविनिमये यथा {२०१} | आद्याङ्क एकगुणस्तथैव । पराङ्के अष्टगुण एको जाता अष्टौ, अष्टगुणाः पञ्च जाताश्चत्वारिंशत् । समच्छेदत्वात् द्वाविंशतिमध्ये अष्टांशक्षेपे जाता त्रिंशत् चत्वारिंशच्छेदा, यथा {} । एतद्भागैक्यं एतदपास्य १० एकतो यथा एक एकच्छेदः । ततोऽशच्छेदा" वित्यादिना छेद विनिमये यथा
{8:3.} । प्राच्याङ्क एकगुणस्तथैव । पराङ्क एकचत्वारिंशद्गुणो जाता चत्वा रिंशत् , यथा {४० } । तत एकोत्थचत्वारिंशतो मध्यात् त्रिंशत्पाते स्थित। दश चत्वारिंशच्छेदाः, यथा {:: } । शेषेण भागैक्यविवर्जितेन दशकेन दृश्य दश विभजेत् , तथाहि-दृश्यदशकच्छेदा ततो भागैक्यशेषदशच्छेदचत्वारिंशतः १५ "कृत्वा परीवर्तन"मित्यादिनोपरि चत्वारिंशत् , अधश्च दश, यथा {१६} तत आयाङ्कचत्वारिंशद्गुणा दश जाता चतुःशती । अस्याश्चत्वारिंशत एक गुणच्छेददशकेन भागे {२} । लब्धं चत्वारिंशदलिकुलप्रमाणम् ।
अस्य वासना-चत्वारिंशत्पश्चमे भागे अष्टौ चूतद्रुमे, चत्वारिंशदष्टमे भागे पञ्च पमे, चत्वारिंशद्भागीकृतयूथस्य चत्वारिंशतो नव भागा इति नव कुन्दे २० चत्वारिंशत्पश्चमे भागे अष्टौ जातीलतायां, दृश्याश्च दश, यथा {८.५,९,८.१० एषां योगे जाता चत्वारिंशत् । एवं विश्लेषजातिः समाप्ता ।
शेषमूलजातिःअथ शेषमूलजतौ करणसूत्रं वृत्तमाह
पदसमीपचतुर्गुणदृश्यके, खगुणमूलयुते कृतमूलके। २५ पदयुते दलिते निजताडिते, विलवरूपहृतेऽथ पुनर्विधिः॥'
(व्याख्या-) पदमूलशब्दावेकाौँ । तस्य पदसमीपे चतुर्गुणं दृश्यं धादि। त पदसमीपचतुर्गुणदृश्यके यत्र मूलस्य प्राग द्विप्रभृतिसङ्ख्या नास्ति तत्र एक ए मूलं तच्च स्वगुणं एकगुणम् । ततः स्वगुणमूलेनैकेन युते जातनवके ततः कृतमूल १ द्रुतविलम्बितम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org