________________
४४
गणित तिलकम्
44
[ श्रीपतिक्ययधि (क) पञ्चशतपाते स्थितौ द्वौ चतुरधि (क) पञ्चशतच्छेदौ, यथा ( ३०४} । अयं हरराशिः । ततो दृश्यं चत्वार एकच्छेदः, यथा ( 1 ) । ततः " कृत्वा परीवर्तनमंशहारयो" रित्यादिना उपरि चतुरधि ( क ) पञ्चशती, अधश्च द्वौ । ततो द्वयोरपि छेदयोर्विनिमये यथा (01|| } | अंशयोरुपरि चतुर्णां चतुरधि (क)५ पञ्चशत्याश्च मिथो गुणने जाता षोडशाधि ( क ) द्विसहस्री । छेदश्व द्विगुण एको जातौ द्वौ । ततो द्वाभ्यां षोडशाधि ( क ) द्विसहस्रस्य भागे यथा ( २०१३} | लब्धं अष्टाधि (क) सहस्रं यूथगजाः, यथा १००८ । एवं दृश्यजातिर्भागानुबन्धादिजातियुक्ता परिज्ञेया । एवं दृश्यजातिः समाप्तः ॥
शेषजाति:
१०
अथ शेषजाती करणसूत्रं वृत्तार्थमाह
छिद्घातभक्तेन लवोनहार - घातेन भाज्यः प्रकटाख्यराशिः।'
अत्र उपर्यशाश्छेदाश्च तादृशा एव वारद्वयं स्थाप्या इत्यङ्कत्रयापेक्षा शेष जातिः समुदायादर्थं क्रीडति । ततः शेषार्धस्य त्र्यंशः पर्वतान्तः प्रविष्टः । ततो यच्छेषं तच्चतुर्भागः कुम्भक विनोदयतीत्येवं शेषरूपा शेषजातिः । तस्यां १५ द्वितीयवेलालिखितच्छिदां यो घातः - परस्परगुणनं स छिद्घातस्तेन भक्तेन विशेषणेन लवा - अंशा उपरिस्थास्तैरूनः अपवर्जितत्वात् यो हारराशि:- प्रथमलिखितच्छेदराशिस्तस्य यो घातः - परस्परगुणनं तेन लवोनहारघातेन भाज्योभजनीयः प्रकटाख्यराशिष्टषष्टिहस्तिलक्षणः ॥
२०
अत्रोदेशकवृत्ते उदाहरणमाह
क्रीडां कर्तुं प्रवृत्तं कचिदपि च दलं मत्तदन्तीन्द्रयूथाः (?) शेकशः प्रन (ण) ष्टो हरिणपतिभयादारटन् कन्दरेषु । शेषांहिर्गण्डकण्डमपनयति सखे ! पश्चमांशश्च शेषात्
पाथः पातुं प्रविष्टः प्रवद् करटिनो हन्त दृष्टाश्च षष्टिः ॥ स्पष्टम् | न्यासः (३) । अत्र क्रमेण एकैकलवन्यूनो हारराशिः । २५ प्रथमच्छेदराशिरेकद्वित्रिचतुष्करूपो जातः । अंशाच भग्नाः, यथा ( ३/३ ||} | अस्य लवोनहारराशेर्घातो - गुणनम्, यथा- एकगुणौ द्वौ तथैव द्विगुणास्त्रयो जाताः षट्, षड्गुणाश्चत्वारो जाताश्चतुर्विंशतिः, यथा २४ । अयं लवोनहार - घातः । अस्य भागं दातुं छिदामधस्तनानां घातः, यथा - द्विगुणास्त्रयो जाताः
१ इन्द्रवज्रा । २ सग्धरा ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org