________________
विरचितम् ]
भागापवाहजातिः
(अथ) भागापवाहजातौ करणसूत्रं वृत्तम्भागापवाहनविधौ हरनिघ्नरूपे राशेर्लवानपनयेद् गुणयेद्धरेण । छेदं त्वधस्तनलवोनहरेण हन्यादाद्यांशकं खलु वदन्ति सवर्णतज्ज्ञाः ॥'
व्याख्या - यत्र रूपभागा यदिवा भागसङ्कलितरूपाद् भागा यद्वा भागाद् भागा अपवाह्यन्ते यत्र तत्र भागापवाहनविधौ हरनिघ्नेति ऊर्ध्वाशस्य यो हरश्चतुर्भागादिस्तद्गुणरूपे उपर्यंशलक्षणराशेरुपर्यशान् हरगुणितान् लवान् भागान् पश्चादवस्थितशून्यानेकादीनपनयेत् । अथवा हरनिघ्नो यो रूपराशिस्तस्मात् हरनिघ्नरूपात् राशेरर्थस्तु पूर्ववत् । ततो हरेण उपरितनेन छेदं अधोऽंशच्छेदं अधोऽशच्छेदेन वा ऊर्ध्वाशच्छेदं गुणयेत् । तथा अधस्तनलवेति अधोऽंशन्यूनहरेण आद्यांशकं हन्यात् । शेषं स्पष्टम् ॥
अत्रोदेशक श्लोक एकः-
पूर्वोक्ता (ङ्का) नपि ब्रूहि, निजभागविवर्जितान् । सवर्णयित्वेह चेन्मित्र !, वेत्सि भागापवाहनम् ॥'
व्याख्या - पूर्वोक्तान् सचरणदशादीनित्यत्र विचरणदशादि ज्ञेयम् । यैर्भागैsङ्काः पूर्वप्रयुक्तास्तैरेव भागैस्त एवाङ्का अत्र वियोज्याः । तेषां भागानां च वियोज्यत्वोपलक्षणाय पश्चात् तेषां शून्यं देयम् । प्रथमोदाहरणन्यासः {|-|-}} । अत्राद्यपद क्रियैव कार्या यथा हरेति प्रथमाङ्के । हरश्च तत्रि (चतुर् )नोरूपराशिदशलक्षणो जाता चत्वारिंशत् । अतो भागानपनयेत् । एकभागापनयने जाता एकोनचत्वारिंशच्चतुश्छेदाः, यथा ( : ) । द्वितीयाङ्के हरनिनेति द्विगुण एको जातौ द्वौ । तस्मादेकापनयने जात एको द्विच्छेदः, यथा ( 2 ) | तृतीयेऽङ्के हरनिघ्नेति त्रिगुणौ द्वौ जाताः षट्, एकभागापनयने जाताः पञ्च त्रिच्छेदा:, यथा, (३) । अत एतेषां संयोजनार्थ अंशच्छेदावित्यादिना प्रथमाङ्के छेदचतुष्कस्य अर्धेनापवर्ते जातौ द्वौ । द्वितीयाङ्के द्विच्छेदस्यापवर्तने जात एकः । ततो विनिमये यथा {} । ततः प्रथमोऽङ्क एकगुणः स एव । द्वितीयाङ्के द्विगुण को जातौ द्वौ । द्विगुणौ द्वौ जाताश्चत्वारः । समच्छेदत्वात् प्रथमो - परिमांशैकचत्वारिंशन्मध्ये द्विकक्षेपे जाता एकचत्वारिंशच्चतुश्छेदा । शेषं विनष्टम्, यथा {४१} | तृतीयाङ्केन समं यथा चतुस्त्रिच्छेदयोर्विनिमये (४ | } |
१ वसन्ततिलका | २ सप्ताक्षर मया चरणात्मकमनुष्टुप् (?) ।
Jain Education International
३७
For Private & Personal Use Only
www.jainelibrary.org