________________
विरचितम् ]
शून्यस्वरूपम् भाविनीति कृत्वा तद्विज्ञा (१) पूर्व तान्युक्त्वा भिन्नसङ्कलितादीन्युक्तवान् । अत्र तु सङ्कलितादिप्रस्तावात् भिन्नसङ्कलितादीनि मुक्तवानिति सर्वं सुस्थम् ॥
शून्यस्वरूपम्अथाङ्कसहचारिणः शून्यस्य स्वरूपजिज्ञासो प्रश्नमाशय शून्यव्याप्तिमाहयोगे शून्यं भवति सदृशं क्षेपकस्याविकारी
राशिः शून्यापगममिलने शून्यघाते च शून्यम् । व्योम्ना भक्ते भवति गगनं व्योनि भक्ते च शून्यं
वर्गे व्योम्नो वियदिति भवेदन्तरिक्ष घनश्च ॥४५॥' व्याख्या-क्षेपकस्य पञ्चकायोगे शून्यं सदृशं पञ्चकायेव भवति । तथा शून्यस्थापगमे दशकादेमध्यात् शून्याकर्षणे तथा शून्यस्य मिलने-मध्ये शून्य-१० क्षेपे । तथा लीलावत्यभिप्रायमामृश्य व्याख्याने अपगमो भागदायी राशिर्मिलनशब्देनोपचयहेतुत्वात् तद्गुणकः । ततो यदा शून्यस्य भागदायिता गुणकता च स्यात् । अयमर्थः-यस्याङ्कस्य गुणनं भागश्च उपर्यधः शून्यं न स्यात् । एवं त्रिधाऽपि राशिरविकारी स्यात् । तथा शून्यापगममिलनकथनेन शून्यव्यवकलितसङ्कलिते प्रदिष्टे । यतः शून्यव्यये सङ्कलिते वाऽविकृत एव राशिस्तथा शून्य-१५ घाते शून्येन घाते-गुणने पञ्चप्रभृतिरङ्कः शून्यं स्यादिति । एतेनाङ्कवत् खेन चेत् शून्यं गुण्यते तथापि खमेव । व्योम्ना-शून्येन भक्ते अङ्केन ... सर्वोऽपि याति । तथा व्योम्नि शून्ये व्योम्ना भक्ते अङ्कवत् शून्यं भवति । प्राक्तनवाक्यद्वयेन प्रत्युत्पन्नभागहारविधी उक्तौ । तथा व्योम्नो वर्गे सदृशं(शि) द्विराशिघातलक्षणे वियदिति भवेत् । तथा व्योम्ना धनसदृशत्रिराशिघातलक्षणम् । २० सोऽप्यन्तरिक्षं-गगनमेव स्यात् । चकाराद् व्योम्नो वर्गमूलेऽपि व्योमैव । व्योम्नो घनमूलमप्यन्तरिक्षमेव । एतेन वर्गादिपरिकर्मचतुष्टयमुक्तम् । अस्योदाहरणं दर्शयितुं लीलावतीसूत्रं दर्श्यते यथा
"योगे खं क्षेपसमं वर्गादौ खं खभाजितो राशिः। खहरः स्यात् खगुणः खं खगुणश्चिन्त्यश्च शेषविधौ ॥ १॥ २५ शून्ये गुणके जाते खं हारश्चेत् तदा पुना राशिः।
अविकृत एव ज्ञेयस्तथैव खेनोनितश्च युतः ॥२॥" इदमार्याद्वयं प्राग्वृत्तव्याख्ययैव गतार्थम् । उदाहरणवृत्तं यथा__ "खं पञ्चयुग् भवति किं वद खस्य वगै(ग) मूलं धनं घनपदं खगुणांश्च पञ्च ।
३० १ मन्दाक्रान्ता । २-५ प्रेक्ष्यतां लीलावत्याः शून्यपरिकर्माष्टकम् । ३-४ आर्या ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org