________________
७
विरचितम् ]
भिन्नघनमूलम् दिना सवर्णितए(१ तै)काधि(क)नवतिसप्तशतादीनां यन्मूलं धनपदमधनपदेत्यादिना यल्लब्धमङ्कपदं तत्र घनलवमूले हरः अधस्तनोऽङ्कश्चतुःषष्टिप्रभृतिस्तस्य पदंमूलं चतुष्कादि तेन भक्ते हरपदविभक्ते गणितविधिज्ञा धनपदं-भिन्नघनमूलमाहुरिति सण्टङ्कः । अत्रोद्देशकश्लोकः
प्राचीनधनराशीनां, ब्रूहि मित्र! पदानि मे ।
घनमूल विधाने च, प्रभूता यदि ते मतिः॥४४॥ (व्याख्या-) प्राचीनधनराशीनां प्रागुक्त एकनवत्यधि(क)सप्तशतादिराशीनां पदानि-मूलानि चरणाधिनवप्रभृतीनि ब्रूहीति सम्बन्धः । शेषं स्पष्टम् ।
प्रथमोदाहरणम् । न्यासः {१} । अत्र भागानुवन्धत्वात् छेदनिनेत्यादिना १० चतुःषष्ट्या उपर्यको गुणितो जातः सहस्राः पञ्चाशत् षट्शती चतुर्विंशतिश्च । एकोनत्रिंशत्क्षेपे जाता पर्यन्तत्रिपञ्चाशत्, यथा ५०६५३ । अस्य लवघनस्य सवर्णितस्य मूलानयनाय धनोऽधनद्वन्द्वेत्यादिना पश्चाशत्सत्कशून्याधापर्यन्तघनपदम् , ततो यस्याङ्कस्योपरि घनो याति तमधः कृत्वा घनमपनयेत् , यथा५०६५३ त्रिकपनं सप्तविंशतिः, पञ्चाशन्मध्यादपनीतायां शेषं स्थिता त्रयोविं-१५ शतिः। ततस्त्रिकं मूलसझं त्रिपञ्चाशत्सत्कपञ्चकाधो नयेत् , यथा { २३६५३}। ततोऽस्य कृतिनव त्रिनी जाता सप्तविंशतिस्तया त्रिकात् पूर्वन्यस्तया शेषमङ्करा शिं हरेत् , यथा {२३६५३} । ततः सप्तविंशत्यधः सप्तकेन भागे गतमेकोननवतिशतम् , स्थितं शेषं पञ्चचत्वारिंशत् । उक्तार्थत्वाच सप्तविंशतिर्भज्यते { ४७५३} । लब्धं च सप्तकं पतयां त्रिकाग्रतो नियोज्य यथा { ४०५४} । ततोऽन्यतत्कृतिमि-२० त्यादि तस्य सप्तकस्य कृतिरेकोनपञ्चाशल्लक्षणो वर्गः, तमन्त्यत्रिकेण हत्वा जातः सप्तचत्वारिंशदधि(क)त्रिशती, यथा {३४ } | घनं चेति आदेः सप्तकस्य घनं त्रिचत्वारिंशदधि(क)त्रिशतीमपनयेत् । त्रिर्गमयेत् । लब्धं सप्तत्रिंशत्। एतत्सप्तशतप्रभृतितदधः सप्तविंशतिच्छेदा घनमूलम् । तत्र लवघनमूले हरपदेति हरचतुःषष्टिस्तस्य मूलं चतुष्कं तेन भक्ते । अयमर्थः-सप्तत्रिंशतश्चतुष्केण भागे लब्धं नव ९२५ शेषे चैकश्चतुश्छेदः, लब्धं चोपरि नियोज्यमिति सर्वत्र ज्ञेयम् , यथा {3}।
द्वितीयोदाहरणम् । न्यासः {१६} । भागानुबन्धत्वात् छेदनिनेत्यादिना सप्तविंशत्या एकाशीत्यधिक) एकं शतं गुणितं जाताः सहस्राश्चत्वारोऽष्टशती सप्ताशीतिश्च । ततः षड्विंशतक्षेपे जाता चतुःसहस्री नवशती त्रयोदश । तदधः सप्तविंशतिच्छेदा यथा { ४९३७} । अस्य लवघनस्य व्यंशवर्जितषलक्षणमूलान-३० १ अनुष्टुप् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org