SearchBrowseAboutContactDonate
Page Preview
Page 805
Loading...
Download File
Download File
Page Text
________________ प्रकाशिका टीका तृ. ३ वक्षस्कारः सू० २२ सप्तराव्यानंतरीयवृत्तवर्णनम् १९१ महोणइए पच्चत्थिमणिक्खुडं ससिंधुसागरगिरिमेरागं समविसम णिक्खुडाणि अ ओअवेहि ओअवित्ता अम्गाई वराई रयणाइं पडिच्छाहि पडिच्छित्ता मम एय माणत्तियं खिप्पामेव पच्चपिणाहि जहा दाहिणिलस्स ओयवणं तहा सव्वं भाणिव्वं जाव पच्चणुभवमाणेो विहरंति ॥सू० २२। छाया-ततः स्खलु तस्य भरतस्य राज्ञः सप्तररात्रे परिणमति अयमेतद्पोऽभ्यर्थितः चिन्तितः कल्पितः प्रार्थितः मनोगतः सङ्कल्पः समुदपद्यत,कः स खलु भोः ! अप्रार्थितप्रार्थको दुरन्तप्रान्तलक्षणो यावत् परिवर्जितः यः स्खलु मम अस्यामेतपायां यावदभिसमन्वागतायाम् उपरि विजयस्कन्धावारस्य, युगमुसलमुष्टि यावत वर्ष वर्षति । ततः खलु तस्य भरतस्य राज्ञः इदमेतद्रूपम् अभ्यथितं चिन्तितं कलितं प्राथितं मनोगतं संकल्प समुत्पन्नं ज्ञात्वा षोडशदेव सहस्त्राः सन्नधुप्रवृत्ताप्यभवन् , ततः खलु ते देवाः सन्नद्धबद्धर्मितकवचाः यावत् गृहीतायुधप्रहरणाः यत्रैव ते मेघमुखाः नागकुमाराः देवास्तत्रैव उपागच्छन्ति, उपागत्य मेघमुखान् नागकुमारान् देवान् एवमवादीत् भो ! मेघमुखाः नागकुमाराः! देवाः अप्रार्थितप्रार्थकाः यावत् परिवर्जिताः किं खलु यूयं न जानीथ भरतं राजानं चातुरन्तचक्रवर्तिनं महर्द्धिकं यावत् उपद्रवयितुं वा प्रतिषेधयितुं वा, तथापि खलु यूयं भर. तस्य राज्ञो विजयस्कन्धावारस्योपरि युगमुसलप्रमाणमिताभिर्धाराभिः ओघमेघ सप्तरात्र वर्ष वर्षत, तत् एवमपि गते इतः क्षिप्रमेव अपकामत अथवा खलु अद्य पश्यत चित्रं जीवलोकम्, ततः खलु ते मेघमुखा नागकुमारा देवाः तैः देवैः एवमुक्ताः सन्तः भीताः प्रस्ताः वाधिताः उद्विग्नाः सातभयाः मेघानीकं प्रतिसंहरन्ति, प्रतिसंहृत्य यत्रैव आपातकिराताः तत्रैव उपागच्छन्ति उपागत्य आपातकिरातान् एवमवादिषुः एषः खलु देवानुप्रियाः। भातो राजा महद्धिको यावत् नो खलु एष शक्यते केनापि देवेन वा यावत अग्निप्रयोगेण वा यावत् उपद्रवयितुं वा प्रतिषेधयितुवा तथापि च खलु अस्माभिः देवानुप्रियाः! युष्माकं प्रीत्यर्थ भरतस्य राक्षः उपसर्गः कृतः तद्गच्छत देवानुप्रियाः! यूयं स्नाताः कृतबलिकर्माणः कौत कमलप्रायश्चित्ताः आर्द्रपटशाटकाः अवचूलकनियत्थाः अग्रयाणि वराणि रत्नानि गृहोत्वा प्राञ्जलिकृताः पादपतिताः भरतं राजानं शरणम् उपेत प्रणिपतितवत्सलाः खलु उत्तमपुरुषाः नास्ति भवतां भरतस्य राज्ञोऽन्तिकाद् भयमिति कृत्वा एवम् उदित्वा यामेव दिश प्रादुर्भूताः तामेव दिशं प्रतिगताः । ततः खलु ते आपातकिराताः मेघमुखैः नागकुमार देवैः एवमुक्ताः सन्तः उत्थया उत्तिष्ठन्ति, उत्थाय स्नाताः कृतबलि कर्माणः कृतकौतुकमङ्गलप्रायश्चित्ताः आद्रपटशाटकाः अवचूलकनियत्थाः अग्र्याणि वराणि रत्नानि गृहीत्वा यत्रैव भरतो राजा तत्रवोपागच्छन्ति उपागत्य करतलपरिगृहीतं यावत् मस्तके अञ्जलिं कृत्वा भरतं राजानं जयेन विजयेन वद्धयन्ति वर्द्धयित्वा अग्र्याणि वराणि रत्नानि उपनयन्त उपनीय एवमवादिषुः हे वसुधर! गुणधर ! जयधर! ही श्री धृति कीर्तिधारक! नरेन्द्र लक्षण सहस्त्रधारक! नः राज्यमिद चिरं धारय ॥१॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003154
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti Ahmedabad
Publication Year1980
Total Pages994
LanguagePrakrit, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy