SearchBrowseAboutContactDonate
Page Preview
Page 543
Loading...
Download File
Download File
Page Text
________________ प्रकाशिका टीका तृ० बक्षस्कारः सू० ३ भरतराज्ञः दिग्विजयादिनिरूपणम् ५२९ छाया-ततः खलु तस्य भरतस्य राज्ञोऽन्यदा कदाचिद् आयुधगृहशालार्या दिव्यं चक्ररत्नं समुदपद्यत, ततः खलु स आयुधगृहिको भरतस्य राक्षः आयुधगृहशालायां दिव्यं चक्ररन्नम् समुत्पन्न पश्यति, दृष्ट्वा च हृष्ट तुष्ट चित्तमानन्दितः नन्दितः प्रीतिमनाः परमसौमनस्थितः हर्षपशविसर्पहृदयः यत्रैव दिव्यं चक्ररत्न तत्रैव उपागच्छति, उपागत्य त्रिः कृत्वः आदक्षिणप्रदक्षिणं करोति, कृत्वा करतल यावत् कृत्वा चक्ररत्नस्य प्रणाम करोति, कृत्वा आयुधगृहशालातः प्रतिनिष्कामति, प्रतिनिष्क्रम्य यत्रैव बाहिरिका उपस्थानशाला यत्रैव भरतो राजा तत्रैवोपागच्छति, उपागत्य करतल यावत् जयेन विजयेन वर्द्धयति, वर्द्धयित्वा एवमबादीत्-एवं खलु देवानुप्रियाणाम् आयुधगृहशालायां दिव्यं चक्ररत्नं समुत्पन्नं तदेतत् खलु देवानुप्रियाणां प्रियार्थतायै प्रिय निवेदयामः प्रियं भवतां भवतु, ततः खलु स भरतो राजा तस्य आयुधगृहिकस्य अतिके पतमर्थम् श्रुत्वा निशम्य हृष्ट यावत् सौमनस्यितः विकसितवरकमलनयनवदनः प्रचलितबरकटकत्रुटितकेयूरमुकुटकुण्डलहारविराजमानरतिदवक्षस्कः प्रालम्बप्रलम्बमानघोलद् भूषणधरः ससम्भ्रम त्वरितं चपलं नरेन्द्रः सिंहासनादभ्युत्तिष्ठति, अभ्युत्थाय पादपीठात् प्रत्यवरोबति, प्रत्यवरुह्य पादुके अवमुञ्चति, अवमुच्य एकशाटिकम् उत्तरासङ्ग' करोति कृत्वा अञ्जलिमुकुलिताग्रहस्तः चक्ररत्नाभिमुखः सप्ताष्टपदानि अनुगच्छति, अनुगत्य वामं जानुम् आकुञ्चयति, अकुच्य दक्षिण जानु धरणीतले निहत्य करतल यावदजलिं कृत्वा चक्ररत्नस्य प्रणाम करोति, कृत्वा तस्यायुधगृहिकस्य यथा मालितं मुकुटवर्जम् अवमोचक ददाति, दत्वा सत्कारयति, सन्मानयति, सत्कृत्य सन्मान्य प्रतिविसर्जयति, प्रतिविसl सिंहासन वरगतः पूर्वाभिमुखः सन्निषण्णः । ततः खलु स भरतोराजा कौटुम्बिकपुरुषान् शब्दयति. शब्दयित्वा एवमवादीत् क्षिप्रमेव भो देवानुप्रियाः! विनीतां राजधानी साभ्यन्तरबाहिरिकाम् आसिक्तसमार्जितसिक्तशुचिकरथ्यान्तरवीथिकाम् मञ्चातिमञ्चकलिताम् नानाविधराग वसनोच्छ्रितध्वजपताकातिपताकमण्डिताम्, लापितोल्लोचितमहितां लिप्तोल्लोचित महिताम्वा, गोशोर्षसरसरक्तचन्दनकलशाम् चन्दनगृहसुकृत यावद्गन्धोद्धुताभिरामाम् सुगन्धवरगन्धिताम् गन्धवर्तिभूताम् एतामाप्ति प्रत्यर्पयत ततः खलु ते कौटुम्बिकपुरुषाः भरतेन राज्ञा एव मुक्ताः सान्तः हृष्ट तुष्ट० करतल यावत् एवं स्वामिन् ! आशायाः विनयेन वचनं प्रतिशण्वन्त प्रतिश्रुत्यः भरतस्य अंतिकात् प्रतिनिष्कामन्ति प्रतिनिष्क्रम्य विनीतां राजधानी यावत् कृत्वा कारयित्वा च तामाक्षप्ति प्रत्यर्पयन्ति । ततः खलु स भरतो राजा यत्रैव मज्जनगृहं तत्रैवोपागच्छति , उपागत्य मज्जनगृहम् अनुप्रविशति अनुप्रवश्य समुक्तिजालाकुलाभिरामे विचित्रमणित्नकुट्टिमतले रमणीये स्नानमण्डपे नानामणिरत्नभक्तिचित्रे स्नानपीठे सुखनिषण्णः शुभोदकैः सुखोदकैर्वा गन्धोदकैः पुष्पो दकैः शुद्धोदकैश्च, पुनः कल्याणकारिबरमजनविधिना मज्जितः तत्र कौतुकशतैः बहुविधैः कल्याणक प्रबरमजनावसाने पक्षमलसुकुमालगन्धकाषायिकी रूक्षिताङ्गः सरससुरभिगोशीर्षबन्दनानुलिप्तगात्रः अहत सुमहार्घदुष्यरत्नसुसंवृत्तः शुचिमालावर्णकविलेपनः आविद्ध Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003154
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti Ahmedabad
Publication Year1980
Total Pages994
LanguagePrakrit, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy