SearchBrowseAboutContactDonate
Page Preview
Page 235
Loading...
Download File
Download File
Page Text
________________ भावसंग्रहः। २२३ भावोत्र क्षायिकः शुद्धः सम्यक्त्वं क्षायिकं परम् । यथाख्यातं हि चारित्रं निर्ममत्वस्य जायते ॥ ७२६ ॥ यदौदारिकमङ्गं तु सप्तधातुसमन्वितम् । अन्यथा तदभूत्तस्मात्परमौदारिकं स्मृतम् ॥ ७२७॥ तेजोमूर्तिमयं दिव्यं सहस्रार्कसमप्रभम् । विनष्टाङ्गप्रतिच्छायं नष्टकेशादिवर्धनम् ।। ७२८ ॥ यदार्हन्त्यं पदं प्राप्य देवेशो देवपूजितः । जन्ममृत्युजरातङ्कविच्युतः प्रभवत्यसौ ॥ ७२९ ॥ ज्ञानदृष्टयावृतेस्त्यागात्केवलज्ञानदर्शने । उदयं प्राप्नुतस्तस्य जिनेन्द्रस्यातिनिर्मले ॥ ७३० ॥ अनन्तसुखसम्भूतिर्जाता मोहारिसंक्षयात् । विप्लवादन्तरायस्य कर्मणोऽनन्तवीर्यता ।। ७३१ ॥ चराचरमिदं विश्वं हस्तस्थामलकोपमम् । प्रत्यक्षं भासते तस्य केवलज्ञानभास्वतः ॥ ७३२ ॥ विशुद्धं दर्शनं ज्ञानं चारित्रं भेदवर्जितम् । प्रव्यक्तं समभूत्तस्य जिनेन्द्रस्यामितद्युतेः ।। ७३३॥ द्विकलंप्रातिहार्याष्टकोपेतः सर्वातिशयभूषितः ।। मुनिवृन्दैः समाराध्यो देवदेवार्चितक्रमः ॥ ७३४ ॥ विहरन् सकलां पृथ्वी भव्यवृन्दान् विबोधयन् । कुर्वन् धर्मामृतासारं राजते देवसंसदि ॥ ७३५ ॥ कतिचिदिनशेपायुर्निष्ठाप्य योगवैभवम् । अन्तमुहूतेशेषायुस्तृतीयं ध्यानमहेति ।। ७३६ ॥ १ वर्षों। - Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003153
Book TitleBhav Sangrahadi
Original Sutra AuthorN/A
AuthorPannalal Soni
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages328
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Metaphysics, & Philosophy
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy