SearchBrowseAboutContactDonate
Page Preview
Page 224
Loading...
Download File
Download File
Page Text
________________ २१२ श्रीवामदेवविरचितो भस्मसात्कुरुते तस्माद्धातिकर्मेन्धनोत्करम् । संप्राप्यार्हन्त्यसल्लक्ष्मी मोक्षलक्ष्मीपतिर्भवेत् ॥ ६१७ ॥ ईदृग्विधं पदं भव्यः सर्व पुण्यादवाप्यते । तस्मात्पुण्यं प्रकर्तव्यं यत्नतो मोक्षकांक्षिणा ॥ ६१८ ॥ एवं संक्षेपतः प्रोक्तं यथोक्तं पूर्वमूरिभिः । देशसंयमसम्बन्धिगुणस्थानं हि पंचमम् ॥ ६१९ ॥ इति पंचमं विरताविरतसंज्ञं गुणस्थानम् । अतो वक्ष्ये गुणस्थानं प्रमत्तसंयताव्हयम् । तत्रौपशमिकाद्याः स्युस्त्रयो भावा यथोदिताः ॥ ६२० ॥ कषायाणां चतुर्थानां तीव्रपाके महाव्रती । भवेत्प्रमादयुक्तत्वात्प्रमत्तसंयताभिधः ॥ ६२१॥ मूलशीलगुणैर्युक्तो यदप्यखिलसंयमी। व्यक्ताव्यक्तप्रमादत्वाचित्रिताचरणो भवेत् ॥ ६२२ ॥ निद्रा स्नेहो हृषीकाणि कषाया विकथाः क्रमात् । एकैकं पंच चत्वारश्चतस्रश्च प्रमादकाः ॥ ६२३ ।। बाबैदेशविधैर्ग्रन्थैश्चेतनाचेतनात्मकैः । तथैवाभ्यन्तरोद्भुतैश्चतुर्दशविधैच्युताः ॥ ६२४ ॥ क्षेत्रं गृहं धनं धान्यं सुवर्ण रजतं तथा । दास्यो दासाश्च भांडं च कुप्यं बाह्यपरिग्रहाः ॥ ६२५ ॥ ग्रन्था हास्यादयो दोषा वामं वेदाः कषायकाः । षडेकत्रिचतुर्भेदैरन्तरङ्गाश्चतुर्दश ॥ ६२६॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003153
Book TitleBhav Sangrahadi
Original Sutra AuthorN/A
AuthorPannalal Soni
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages328
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Metaphysics, & Philosophy
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy