SearchBrowseAboutContactDonate
Page Preview
Page 216
Loading...
Download File
Download File
Page Text
________________ २०४ श्रीवामदेवविरचितो अनुमतत्यागप्रतिमा । १ . नोद्दिष्टां सेवते भिक्षामुद्दिष्टविरतो गृही। द्वेधैको ग्रन्थसंयुक्तस्त्वन्यः कौपीनधारकः ॥५४३ ॥ आद्यो विदधते (ति) क्षौरं प्रावृणोत्येकवाससम् । पंचभिक्षासनं भुंक्ते पठते गुरुसन्निधौ ॥ ५४४ ॥ अन्यः कौपीनसंयुक्तः कुरुते केशलुश्चनम् । शौचोपकरणं पिच्छं मुक्त्वान्यग्रन्थवर्जितः ५४५ ।। मुनीनामनुमार्गेण चर्यायै सुप्रैगच्छति । उपविश्य चरेद्भिक्षां करपात्रेऽङ्गसंवृतः ॥ ५४६ ॥ नास्ति त्रिकालयोगोऽस्य प्रतिमा चार्कसम्मुखा । रहस्यग्रन्थसिद्धान्तश्रवणे नाधिकारिता ॥ ५४७ ॥ वीरचर्या न तस्यास्ति वस्त्रखण्डपरिग्रहात् । एवमेकादशो गेही सोत्कृष्टः प्रभवत्यसौ ।। ५४८ ॥ उद्दिष्टत्यागप्रतिमा । स्थानेष्वेकादशस्वेवं स्वगुणाः पूर्वसद्गुणैः । संयुक्ताः प्रभवन्त्येते श्रावकाणां यथाक्रमम् ।। ५४९ ॥ आतैराद्रं भवेद्धयानं मन्दभावसमाश्रितम् । मुख्यं धयं न तस्यास्ति गृहव्यापरसंश्रयात् ॥ ५५० ॥ गौणं हि धर्मसद्धयानमुत्कृष्टं गृहमेधिनः । भद्रध्यानात्मकं धर्म्य शेषाणां गृहचारिणाम् ॥ ५५१ ॥ १ द्वावेको. ख. । २ सोऽवगच्छति । - Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003153
Book TitleBhav Sangrahadi
Original Sutra AuthorN/A
AuthorPannalal Soni
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages328
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Metaphysics, & Philosophy
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy