SearchBrowseAboutContactDonate
Page Preview
Page 214
Loading...
Download File
Download File
Page Text
________________ २०२ श्रीवामदेवविरचितोयदि पात्रमलब्धं चेदेवं निन्दा करोत्यसौ । वासरोऽयं वृथा यातः पात्रदानं विना मम ॥ ५२९ ॥ इत्येवं पात्रदानं यो विदधाति गृहाश्रमी । देवेन्द्राणां नरेद्राणां पदं संप्राप्य सिद्धयति ॥ ५३० ॥ अणुव्रतानि पंचैव सप्तशीलगुणैः सह । प्रपालयति निःशल्यः भवेबतिको गृही ॥ ५३१ ॥ व्रतप्रतिमा । चतुख्यावर्तसंयुक्तचतुर्नमस्क्रिया सह । ? द्विनिषद्यो यथाजातो मनोवाकायशुद्धिमान् ॥ ५३२ ॥ चैत्यभक्त्यादिभिः स्तूयाज्जिनं सन्ध्यात्रयेऽपि च । कालातिक्रमणं मुक्त्वा स स्यात्सामायिकत्रती ॥ ५३३ ॥ सामायिकप्रतिमा । मासं प्रत्यष्टमीमुख्यचतुष्पर्वदिनेष्वपि । चतुरभ्यवहार्याणां विदधाति विसर्जनम् ॥ ५३४ ॥ पूर्वापरदिने चैकाभुक्तिस्तदुत्तमं विदुः। मध्यमं तद्विना क्लिष्टं यत्राम्बु सेव्यते कचित् ॥ ५३५ ॥ इत्येकमुपवासं यो विदधाति स्वशक्तितः । श्रावकेषु भवेत्तुर्यः प्रोषधोऽनशनव्रती ॥ ५३६ ॥ प्रोषधप्रतिमा । १ सन्ध्यात्रयेष्वपि. ख.। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003153
Book TitleBhav Sangrahadi
Original Sutra AuthorN/A
AuthorPannalal Soni
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages328
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Metaphysics, & Philosophy
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy