SearchBrowseAboutContactDonate
Page Preview
Page 211
Loading...
Download File
Download File
Page Text
________________ भावसंग्रहः संक्षेपस्नानशास्त्रोक्तविधिना चाभिषिच्य तम् । कुर्यादष्टविधां पूजां तोयगन्धाक्षतादिभिः ॥ ४९८ ॥ अन्तर्मुहूर्तमानं तु ध्यायेत् स्वस्थेन चेतसा । स्वदेहस्थं निजात्मानं चिदानन्दैकलक्षणम् ॥ ४९९ ॥ विधायैवं जिनेशस्य यथावकाशतोऽर्चनम् । समुत्थाय पुनः स्तुत्वा जिनचैत्यालयं व्रजेत् ॥ ५०० ॥ कृत्वा पूजां नमस्कृत्य देवदेवं जिनेश्वरम् । श्रुतं संपूज्य सद्भक्त्यों तोयगन्धाक्षतादिभिः ॥ ५०१॥ संपूज्यं चरणौ साधोनमस्कृत्य यथाविधिम् । आर्याणामार्यिकाणां च कृत्वा विनयमंजसा ॥ ५०२ ॥ इच्छाकारवचः कृत्वा मिथः साधर्मिकैः समम् । उपविश्य गुरोरन्ते सद्धर्म शृणुयाद्बुधः ॥ ५०३॥ देयं दानं यथाश्त्या जैनदर्शनवर्तिनाम् । कृपादानं च कर्तव्यं दयागुणविवृद्धये ॥ ५०४ ॥ एवं सामायिकं सम्यग्यः करोति गृहाश्रमी। दिनैः कतिपयैरेव स स्यान्मुक्तिश्रियः पतिः॥ ५०५ ॥ मासं प्रति चतुर्वेव पर्वस्वाहारवर्जनम् । सकृद्भोजनसेवा वा कांजिकाहारसेवनम् ॥ ५०६ ॥ एवं शक्त्यनुसारेण क्रियते समभावतः । स प्रोषधो विधिः प्रोक्तो मुनिभिर्धर्मवत्सलैः ॥ ५०७॥ १ वा ख. । २ च ख. । ३ श्लोकोऽयं. ४९९ श्लोकादुत्तरं। ४ श्लकोयं ४९८ श्लोकात्पूर्व ख-पुस्तके । ५ सद्भाव्यः ख. । ६ श्लोकोऽयं. ख. पुस्तके नास्ति । Jain Education International For Private & Personal Use Only ___www.jainelibrary.org
SR No.003153
Book TitleBhav Sangrahadi
Original Sutra AuthorN/A
AuthorPannalal Soni
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages328
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Metaphysics, & Philosophy
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy