SearchBrowseAboutContactDonate
Page Preview
Page 209
Loading...
Download File
Download File
Page Text
________________ भावसंग्रहः । १९७ पूजापात्राणि सर्वाणि समीपीकृत्य सादरम् । भूमिशुद्धिं विधायोचैदर्भानिज्वलनादिभिः ॥ ४७५ ॥ भूमिपूजां च निवृत्य ततस्तु नागतर्पणम् । आग्नेयदिशि संस्थाप्य क्षेत्रपालं प्रतृप्य च ॥४७६ ॥ स्नानपीठं दृढं स्थाप्य प्रक्षाल्य शुद्धवारिणा । श्रीबीजं च विलिख्यात्र गन्धाद्यैस्तत्प्रपूजयेत् ॥ ४७७॥ परितः स्नानपीठस्य मुखार्पितसपल्लवान् । पूरितांस्तीर्थसत्तोयैः कलशांश्चतुरो न्यसेत् ॥ ४७८ ॥ जिनेश्वरं समभ्यर्च्य मूलपीठोपरिस्थितम् । कृत्वाव्हानविधिं सम्यक प्रापयेत्स्नानपीठिकॉम् ॥ ४७९ ॥ कुर्यात्संस्थापनं तत्र सविधानविधानकम् । नीराजनैश्च निवृत्य जलगन्धादिभिर्यजेत् ॥ ४८० ॥ इन्द्राद्यष्टदिशापालान् दिशाष्टसु:निशापतिम् । रक्षोवरुणयोर्मध्ये शेषमीशानशक्रयोः ॥ ४८१ ॥ न्यस्याव्हानादिकं कृत्वा क्रमेणैतान मुदं नयेत् । बलिप्रदानतः सर्वान् स्वस्वमंत्रैर्यथादिशम् ॥ ४८२ ॥ ततः कुम्भं समुद्धार्य तोयचोचेक्षुसद्रसैः। सदघृतैश्च ततो दुग्धैर्दधिभिः स्नापयेजिनम् ॥ ४८३ ॥ तोयैः प्रक्षाल्य सच्चूर्णैः कुर्यादुद्वर्त्तनक्रियाम् । पुनर्नीराजनं कृत्वा स्नानं कषायवारिभिः ॥ ४८४ ॥ चतुष्कोणस्थितैः कुम्भैस्ततो गन्धाम्बुपूरितैः । अभिषेकं प्रकुरिन् जिनेशस्य सुखार्थिनः ॥ ४८५ ।। १ कं. क.। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003153
Book TitleBhav Sangrahadi
Original Sutra AuthorN/A
AuthorPannalal Soni
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages328
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Metaphysics, & Philosophy
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy