SearchBrowseAboutContactDonate
Page Preview
Page 206
Loading...
Download File
Download File
Page Text
________________ श्रीवामदेवविरचितो विरताविरतस्तस्माद्भण्यते देशसंयमी । प्रतिमालक्षणास्तस्य भेदा एकादश स्मृताः ॥ ४४४ ॥ आद्य दर्शनिकस्तत्र व्रतिकः स्यात्ततः परम् । सामायिकवती चाथ सप्रोषधोपवासकृत् ॥ ४४५ ॥ सचित्ताहार संत्यागी दिवास्त्रीभजनोज्झितः । ब्रह्मचारी निरारम्भः परिग्रहपरिच्युतः || ४४६ ॥ तस्मादनुमतोद्दिष्टविरतौ द्वाविति क्रमात् । एकादशविकल्पाः स्युः श्रावकाणां क्रमादमी ॥ ४४७ ॥ गृही दर्शनिकस्तत्र सम्यक्त्वगुणभूषितः । संसारभोगनिर्विण्णो ज्ञानी जीवदयापरः ॥ ४४८ ॥ माक्षिकामिपमद्यं च सहोदुम्बरपंचकैः । वेश्या पराङ्गना चौर्य द्यूतं नो भजते हि सः ॥ ४४९ ॥ दर्शनिकः प्रकुर्वीत निशि भोजनवर्जनम् । 1 यतो नास्ति दयाधर्मो रात्रौ भुक्तिं प्रकुर्वतः ॥ ४५० ॥ दर्शनप्रतिमा । १९४ स्थूल हिंसानृतस्तेयपरस्त्री चार्मिंकांक्षता । अणुव्रतानि पंचैव तत्यागात्स्यादणुव्रती ।। ४५१ ॥ योगत्रयस्य सम्बन्धात्कृतानुमतकारितैः । न हिनस्ति त्रसान् स्थूलमहिंसाव्रतमादिमम् ॥ ४५२ ॥ न वदत्यनृतं स्थूलं न परान् वादयत्यपि । जीवपीडाकरं सत्यं द्वितीयं तदणुव्रतम् ॥ ४५३ ॥ अदत्तपरवित्तस्य निक्षिप्तविस्मृतादितः । तत्परित्यजनं स्थूलमचौर्य व्रतमूचिरे ।। ४५४ ॥ १ वरं ख. । २ ति. ख. । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003153
Book TitleBhav Sangrahadi
Original Sutra AuthorN/A
AuthorPannalal Soni
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages328
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Metaphysics, & Philosophy
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy