________________
भावसंग्रहः।
१९१ एवमष्टांगसंयुक्तं सम्यक्त्वं स्याद्भवापहम् । साधकः सर्वकार्येषु मंत्रः पूर्णाक्षरो यथा ॥ ४१८ ॥ दृग्मोहक्षयसंभूतौ यच्छ्रद्धानमनुत्तरं । भवेत्तत्क्षायिकं नित्यं कर्मसंघातघातकम् ॥ ४१९ ॥ नानावाग्भिहूपायैर्भीष्मरूपैश्च दुर्धरैः । त्रिदशाद्यैर्न चाल्येत तत्सम्यक्त्वं कदाचन ॥ ४२० ॥ क्षायिकीदृक्रियारम्भी केवलिक्रमसनिधौ । कर्मक्ष्माजो नरस्तत्र कैश्चिनिष्ठापको भवेत् ॥ ४२१ ॥ लब्धमृत्युनरः कश्चिद्धायुष्कः प्रगच्छति । यस्यां गतौ हि तत्रैव पूर्णतां कुरुते ध्रुवम् ॥ ४२२ ॥ इत्येकेनैव संयुक्तः स्याद्भव्योऽसंयमाव्हयः । द्वितीयानां कषायाणामुदयादव्रतो हि सः ॥ ४२३ ॥ प्रशमास्तिक्यसंवेगाः सहानुकम्पया गुणाः । विद्यन्ते हृदये यस्य स स्यात्सम्यक्त्वभूषितः ॥ ४२४॥ ततस्तु व्रतहीनोऽपि प्राणिघाताय नोद्यमी। प्राणिघातनशीलः स्यात्सम्यक्त्वस्यातिदूरगः ॥ ४२५॥ काकतालीयकन्यायात् सम्यक्त्वं जाँतमात्रकम् । जीवस्यानन्तसंसार संख्यात्मिकां स्थिति नयेत् ॥ ४२६॥ भावनादित्रिषु स्त्रीषु षट्स्वधःश्वभ्रभूमिषु । अवस्थायामपूर्णायां न हि सम्यक्त्वसंभवः ॥ ४२७ ॥ यस्य सम्यक्त्वसम्भूतिरायुर्वन्धेऽथ दुर्गतौ । गतिच्छेदो न तस्यास्ति तथाप्यल्पतरा स्थितिः ॥ ४२८ ॥ १ कर्मक्षमाण्यो इति पृथग्विभक्त्यन्तपदं ख-पुस्तके । २ अस्य स्थाने क्वचिदिति संभाव्यते । ३ याति. क. ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org