________________
छेदशास्त्रम् ।
अस्या अर्थः---अष्टजनेभ्यः प्रायश्चित्तं प्रति क्रमेण । एकासंक्षिपंचेन्द्रिये हते मूलगुणे स्थिरः प्रयत्नचारी तस्योपवासत्रयं । मूलधारिणोऽप्रयत्ने स्थिरस्य ष, स्यात् । मूलगुणेऽस्थिरस्य यत्नपरम्य षष्ठं स्यात् । मूलगुणेऽस्थिरस्य अप्रयत्नपरस्य कल्याणं । उत्तरगुणे स्थिरस्य प्रयत्नपरस्य कल्याणं । उत्तरगुणे स्थिरस्य अप्रयत्नपरस्य उपवासत्रयं । उत्तरगुणेऽस्थिरस्य प्रयत्नपरस्य षष्ठमेकं । उत्तरगुणेऽस्थिरस्य अप्रयत्न चारिणः लघुकल्याणकमेकं । अथैकवारं अज्ञानतो ज्ञानतो वारं वारं वा मूलगुणधारिणां सभयत्नस्थिरस्त्रिरात्रं ( पष्ठं)। मूलगुणधारिणां अप्रयत्नतः ( स्थिराणां) लघुकल्याणामेकं मूलगुणेऽस्थिरः प्रयत्नपरः पंचकल्याणं । अस्थिरः अप्रयत्नः मूलच्छेदं । उत्तरगुणे स्थिरः प्रयत्नपरः उपवासत्रयं । उत्तरगुणे स्थिरः अप्रयलपरः षष्ठं । उत्तरगुणेऽस्थिरप्रयत्नपरः लघुकल्याणमेकं । अस्थिरोत्तरगुणस्य अप्रयत्नपरस्य पंचकल्याणमकं बहुवारं ॥
बहुवारेसु य छेदो छटुं लहु मासियं च मूलं पि। तिण्णुववासा छटुं लहु संठाणमढण्हं ॥ १२ ॥ बहुवारेषु च च्छेदः षष्ठं लघु मासिकं च मूलमपि ।
त्रय उपवासाः षष्ठं लघु संस्थानमष्टानाम् ।। अस्या गाथाया अर्थः पश्चिमगाथायां प्रागुक्तः ॥
उत्तरमूलगुणाणं पमाददप्पम्मि जाण मलहरणं । काउस्सरगुवयासा इंदियगणणा य पाणगणणा य ॥ १३ ॥ उत्तरमूलगुणानां प्रमाददर्पयोः जानीहि मलहरणं ।
कायोत्सर्गोपवासा इन्द्रियगणनया च प्राणगणनया च ।। अस्या अर्थः-उत्तरगुणधारिणः प्राणगणनया (इद्रियगणनया ) प्रमोदे कायोसर्गाः असंज्ञिपंचन्द्रियं यावत् । उत्तरगुणधारिणः द इन्द्रियगणनया प्राणगणनया उपवासाः। ( मूलगुणधारिणः प्रमादे इन्द्रियगणनया कायोत्सर्गाः) । मूलगुणधारिणो दर्पे प्राणगणनया उपवासा असंज्ञिपंचान्द्रयं यावत् ।
१ यत्नेकृतेऽपि जीववधे सति । २ अप्रयत्ने कृते ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org