________________
प्रायश्चित्तसंग्रहे -
ब्रह्महत्यादिकं यस्तु कुरुते मनुजः क्षितौ । तच्छुद्ध्यै त्रिंशदेव स्युरुपवासाः श्रुतौ श्रुताः ॥ एकभक्तानि पंचाशदभिषेकद्वयं घटैः । दशामृतैर्मोक्कूलास्तु विंशतिः परिकीर्तिताः ॥ द्वे गावौ भुक्तिदानानि शतं सुमनसां दश । सहस्राणि दशैव स्युः पलं गन्धस्य च क्रमात् ॥ संघाच पंचभिर्निष्कैस्तीर्थयात्रा च पंच वै ॥ १० ॥ ब्राह्मणक्षत्रियवैश्यानां शूद्रादिगृहसंगतः । अन्नपानं भवेन्मिश्रं यदि शुद्धिरियं पुनः ॥ एकोऽभिषेकः कलशैः पंच पंचामृतैस्तथा । मोक्कूला द्वादश (शा) कभुक्तानि त्रिंशदुच्चकैः ॥ अयुतार्ध च पुष्पाणां श्रीखण्डं तु पलद्वयं । एकैकतर्थयात्राया निष्कद्वितयपूजनम् ॥ ११ ॥ मिथ्याहगशु (ग्छूद्र ) मिश्रानपानादि च भवेद्यदि । प्रायश्चित्तं भवेदत्राभिषेकत्रितयं घटैः ॥ पंचामृताभिषेकाः स्युदेश वै पंचविंशतिः ।
१६८
मोक्कूला गौरिहैका स्यादुपवासा दशोदिताः ॥ एकभक्तानि त्रिंशत्तु पुष्पाणामयुतं भवेत् । श्रीखण्डस्य पलं पंचाहारदानशतं भवेत् ॥ तीर्थयात्राच पंच स्युः पंचनिष्कप्रपूजनम् ॥ १२ ॥ जननीतनुजादीनां चाण्डालादिस्त्रियामपि । संभोगे सति शुद्ध्यर्थे पंचाशदुपवासकाः ॥ भवेत् पंचशती त्वेकभक्तानां तु परिस्फुटं । अभिषेकास्त्रयः कुम्भैः दश पंचामृतैः स्मताः ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org