________________
प्रायश्चित्त-चूलिका।
१५७
सुवर्णाद्यपि-सुवर्णहिरण्यवस्त्रयुगलादि च । दातव्यं-वितरणीयं । तदिच्छूनां-तदार्थनां लोकानां । यथोचितं-यथायोग्यं । शिरःक्षौरं च कर्तव्यं-शिरसो मस्तकस्य क्षौरं क्षुरकर्म केशापनयनं, तदपि कर्तव्यं करणीयं । लोकचित्तजिघृक्षया-लोकस्य जनस्य सम्बन्धिनः, चित्तस्य मनसः, जिघृक्षया गृहीतुमिच्छया-सकलजनमनोनुरागकारिणो धर्मानुष्ठानसुख प्रवृत्तेः । ततः स्ववेश्मप्रवेशो भवति ॥ १४५॥
क्षुद्रजन्तुवधे शान्तिः षष्ठमन्यव्रतच्युतौ । गुणशिक्षाक्षतौ क्षान्तिस्रज्ञाने जिनपूजनम् ॥ १४६ ॥ अद्रजन्तुबधे-क्षुद्रमन्तवः द्वीन्द्रियास्त्रीन्द्रियाश्चतुरिन्द्रियाश्च एतेषां वधे विघाते कृते सति । शान्तिः-उपवासः प्रायश्चित्तं । षष्ठमन्यवतच्युतौअन्येषां स्तेयस्वदारसंतोषपरिग्रहपरिमाणवतानां च्युतौ च्यवने भंगे सति षष्ठं प्रायश्चित्तं भवति । (गुणशिक्षाक्षतौ क्षान्तिः--गुणवतानां शिक्षावतानां च क्षती भंगे सति क्षान्तिरुपवासः प्रायश्चित्तं )। दृग्ज्ञाने जिनपूजनंदर्शनं दृक् सम्यक्त्वं तत्वार्थश्रद्धानलक्षणं, अष्टशुद्धिविशुद्धं ज्ञानमागमः तयोविषये जिनपूजनं सर्वज्ञार्चनं प्रायाश्चत्तं भवति । सर्वोऽपि व्रतदोषः पंचषष्ठिभेदो भवति । तद्यथा--
अतिक्रमो व्यतिक्रमोऽतिचारोऽनाचारोऽभोग इति । एषामर्थश्चायमभिधीयते जरद्वन्यायेन, यथा कश्चिज्जरद्वः महासस्यसमृद्धिसम्पन्न क्षेत्रं समवलोक्य तत्सीमसमीपप्रदेशे समवस्थितस्तत्प्रति स्पृहां संविधत्ते सोऽतिकमः । पुनर्विवरोदरान्तरास्यं संप्रवेश्य ग्रासमेकं समाददामीत्यभिलाषकालुष्यमस्य व्यतिक्रमः । पुनरपि तवृत्तिसमुल्लंघनमस्यातिचारः । पुनरपि क्षेत्रमध्यमधिगम्य ग्रासमेकं समादाय पुनरस्यापसरणमनाचारः। भूयोऽपि निःशंकतः क्षेत्रमध्यं प्रविश्य यथेष्टं संभक्षणं क्षेत्रप्रभुणा प्रचण्डदण्डताडनखलीकारः अभोगकारः अभोग इति । एवं व्रतादिष्वपि योज्यं । उपरि १ 'कृतपूजनं' पुस्तके पाठः । २ कंसस्थः पाठः पुस्तके नास्ति किन्तु कल्पितः।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org