________________
१४६
प्रायश्चित्तसंग्रहे
शिष्ये तस्मिन् परित्यक्ते देयो मासोऽस्य दण्डनम् । चाण्डालाभोज्यकारूणां दीक्षणे द्विगुणं च तत् ॥ ११० ॥ शिष्ये-विनेये । तस्मिन्-पूर्वोद्दिष्टे अकुलीने । परित्यक्ते-परिहते सति । देयो मासोऽस्य--अस्य एतस्याचार्यस्य, देयो दातव्यः, मासो मासिकं प्रायश्चित्तं । चाण्डालाभोज्यकारूणां--चाण्डालानां मातंगादीनां, अभोज्यकारूणां अभोज्यानां कारूणां च रजकवरुटकल्लपालप्रभृतीनां च । दीक्षणे-दीक्षादाने सति । द्विगुणं च तत्--पूर्वोक्तं मासिकं प्रायश्चित्तं द्विगुणं भवति द्विदतिव्यं भवति ॥ ११० ॥
अनाभोगेन चेत्सूरिदोषमाप्नोति कुत्रचित् । अनाभोगेन तच्छेदो वैपरीत्याद्विपर्ययः ॥ १११ ॥
अनाभोगेन-अप्रकाशेन । चेत्-~-यदि । सूरि:---आचार्यः । दोषंअपराधं । आप्नोति । कुत्रचित्-कचिदपि तदा । अनाभोगेन तच्छेदःतस्य आचार्यस्य च्छेदः प्रायश्चित्तं, अनाभोगेनाप्रकाशेनैव भवति । वैपरीस्याद्विपर्ययः-वैपरीत्यात्तव्यत्ययात्, विपर्ययः विपर्यासो भवति-साभोगतः साभोगेनैव प्रायश्चित्तं भवति ॥ १११ ॥
क्षुल्लकानां च शेषाणां लिंगप्रभ्रंशने सति । तत्सकाशे पुनर्दीक्षा मूलात् पाषंडिचेलिनाम् ॥ ११२ ॥ क्षुल्लकानां-सर्वोत्कृष्टश्रावकाणां । शेषाणां च-स्त्रीणामपि आर्याणां । लिंगप्रभ्रंशने-केनापि कारणेन दीक्षाभंगे। सति-विद्यमाने । तत्सकाशे पुनर्दीक्षा–यस्य पार्वे पुरा प्रव्रज्या समुपात्ता । तस्यैव सकाशे समीपे पुनरपि दीक्षोपादानं भवति नान्यस्याचार्यस्याभ्यासे । मूलात् पाषंडिचेलिना-लिंगवर्जितानां अन्यलिंगिनां, चेलिनां गृहस्थानां मिथ्यादृष्टीनां श्रावकाणां च, मूलात् मूलप्रभृत्येव दीक्षा भवति ॥ ११२ ॥
कुलीनक्षुल्लकेष्वेव सदा देयं महाव्रतम् । सल्लेखनोपरूढेषु गणेन्द्रेण गुणेच्छुना ॥ ११३ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org