SearchBrowseAboutContactDonate
Page Preview
Page 157
Loading...
Download File
Download File
Page Text
________________ प्रायश्चित्त-चूलिका। १४१ वेश्यादयः, वर्णविकलाः सूतादयः, तेषु यदि । भुंक्ते--अभ्यवहरति । अजानन--अनवबुद्धयमानः । प्रमादतः कथंचिदेकवारं । तदानीं तस्य, सोपस्थानं-सप्रतिक्रमणं । चतुर्थ--उपवासः । स्यात्-भवेत् । मास:मासिक प्रायश्चित्तं भवति । अनाभोगतः-अनाभोगेन अप्रकाशेन । मुहुःपुनः पुनः, भुंजानस्य साधोः ॥ ९३॥ जातिवर्णकुलोनेषु भुंजानोऽपि मुहुर्मुहुः। साभोगेन मुनिनूनं मूलभूमि समभुते ॥ ९४॥ जातिवर्णकुलोनेषु–जातिवर्णकुलगर्हितेषु । भुंजानोऽपि-अनंश्च । मुहुर्मुहुः-पौनःपुन्यात् । साभोगेन–सप्रकाशतः । मुनिः-साधुः । नूनं-निश्चितं । मूलभूमि-मूलस्थानं । समश्नुते-प्रामोति ॥ ९४ ॥ चतुर्विधमथाहारं देयं यः प्रतिषेधयेत् । . प्रमादाद्दष्टमावाञ्च क्षमोपस्थानमासिके ॥ ९५॥ चतुर्विधमथाहार-अथ अथवा, चतुर्विधं चतुष्प्रकारं अशनपान. साथस्वाद्यभदात्, आहारं भोजनं । देयं-दीयमानं । यःकश्चिन्मुनिः। प्रतिषेधयेत्-निवारयति । प्रमादात्-विस्मरणात् । दुष्टभावाच्च-दौर्जन्यात, तदा प्रत्यकं । क्षमा--उपवासः । उपस्थानमासिके-उपस्थानं प्रतिक्रमणं, मासिकं पंचकल्याणं एते द्वे । प्रमादादिनिवारयतः उपवासः प्रायश्चित्तं । प्रदेषात् सप्रतिक्रमणं सामायिकं (मासिकं ) भवति ॥ ९५॥ ज्ञानोपध्यौषधं वाथ देयं यः प्रतिषेधयेत् ।। प्रमादेनापि मासः स्यात् साध्वावासमथो मुहुः ॥ ९६ ॥ ज्ञानोपध्यौषधं वाथ-~~-अथवा ज्ञानोपधिं ज्ञानोपकरणं पुस्तकं, औषधं भेषजं । देयं-वितीर्यमाणं । यः-पुरुषः । प्रतिषेधयेत्-निषेधयति । १ अनाभोगेन इति पाठः पुस्तके । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003152
Book TitlePrayashchitta Sangraha
Original Sutra AuthorN/A
AuthorPannalal Soni
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages200
LanguageSanskrit
ClassificationBook_Devnagari & Spiritual
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy