________________
१०८
प्रायश्चित्तसंग्रहे
वारसमाई काउं चउआलस अंतु जाव विस्से तु । ? नियमेण पुन्वोच्छे उवरि पडिक्कमेण पुन्वं तु ॥ इति । निष्प्रमादः प्रमादी च प्रत्येकं स स्थिरोऽस्थिरः ।
मूलधार्युत्तराधारस्तस्यासंज्ञिविघातिनः ॥ ७॥ निष्प्रमादः-प्रमादः संज्वलनतीवोदय; प्रमादान्निष्क्रान्तोनिष्प्रमादः । प्रमादो यस्यास्तीति प्रमादी । प्रत्येक-एक एक प्रति । सः-निष्प्रमादः प्रमादी च । स्थिर:--लब्धप्रतिष्ठः, अपरोऽपि, अस्थिरश्च परश्च (स्व) भाव इति निष्प्रमादो द्विभेदभिन्नो भवति । प्रमादी च विभेदः । एवं चतुष्प्रकारो मूलधारी-मूलगुणधारी भवति । उत्तराधारः-उत्तरगुणोपपन्नोऽपि चतुर्विधो भवति । तस्य-पूर्वाभिहितस्य मूलगुणधारिण उत्तरगुण धारिणश्च । असंज्ञिविघातिनः--असंज्ञिपंचेद्रियोपमर्दिनः प्रायश्चित्तमुपरि वक्ष्यते ॥ ७॥
उपवासास्त्रयः षष्ठं षष्ठं मासो लघुः सकृत् ।
कल्याणं त्रिचतुर्थानि कल्याणं षष्ठकं क्रमात् ॥ ८॥ उपवासा:-क्षमणानि, त्रयः भवन्ति । षष्ठं-दौ उपवासौ । पुनः षष्ठं । मासो लघुः-लघुमासः । सकृत्-एकवारं । कल्याणं-पंचकं । विचतुर्थानि-त्रीणि चतुर्थानि वय उपवासा इत्यर्थः । पुनः कल्याणपंचकं । षष्ठं । क्रमात्-क्रमेण । एतानि प्रायश्चित्तानि मूलोत्तरगुणधारिणः सकृ. दसज्ञिपचन्द्रिये हते सति यथासंख्यं भवन्ति ॥ ८ ॥
षष्ठं मासो लधुर्मूलं मूलच्छेदोऽसकृत्पुनः ।
उपवासास्त्रयः षष्ठं लघुमासोऽथ मासिकम् ॥ ९॥ षष्ठं-षष्ठप्रायश्चित्तं । मासो लघुः-लघुमासः । मूलं-मासिकं । मूलच्छेदः-पुनरपि मासिकप्रायश्चित्तं । असकृत्पुनः-अनेकवारं तु । उपवासास्त्रयः--त्रीणि क्षमणानि। षष्ठं-षष्ठप्रायश्चित्तं । लघुमासः---लघुमास
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org