SearchBrowseAboutContactDonate
Page Preview
Page 103
Loading...
Download File
Download File
Page Text
________________ छेदशास्त्रम् । छकम्मदेसयरणे उववासो अटुमं च गीदादी। चाउवण्णवराधे गण (दो) णिग्घाडणं होइ ॥ ३७ ॥ षटुर्मदेशकरणे उपवासः अष्टमं च गीतादेः । चतुर्वर्णापराधे गणतो निर्घाटनं भवति ॥ अस्या अर्थ:---गृहस्थषटूर्मोपदेशके उपवासमेकं । गीतं वाद्यं नृत्यं स्वयं करोति अष्टमं । चातुर्वर्ण्यस्यापराधं वदति स निर्घाटनीयो भवति-परगणे प्रेषणीय इति ॥ भाषासमितिः अण्णाणवाहिदप्पे भक्खणं कंदादि एकबहुवारं। काउस्सग्गुववासा खवणं पणगं च मूलगुणं ॥ ३८॥ अज्ञानव्याधिदः भक्षणं कन्दादेः एकबहुवारं । कायोत्सर्गोपवासौ क्षमणं पंचकं च मूलगुणं ।। अस्या अर्थः-अज्ञानत्वेन कन्दादिभक्षणं करोति एकवारं कायोत्सर्ग । बहु वारायां उपवासमेकं । न्याधिग्रस्ते एकवारायां उपवासमेकं । बहुवारायां खादति तदा कल्याणमेकं । अथ प्रमत्तो भूत्वा हरितकंदादिकं ज्ञात्वा भक्षयति तस्य पंचकल्याणं । अथ दश वर्षानुवर्षे खादति तस्य (स ) भूलस्थानं याति ॥ णिहवणं भणिय भुत्ते सालंवे य कुड्डढक्कस्स। चउरंगुलठिदिरहिदे खवणगिलाणे य छह ससेसु ॥ ३९॥ निष्ठीवनं भणित्वा भुक्ते वंशालंबेन च कुड्यावष्टंभस्य । चतुरंगुलस्थितिरहिते क्षमणं ग्लाने च षष्ठं शेषेषु ॥ अस्या अर्थः-व्याधिग्रस्तो निष्ठीवनं करोति । कुड्यावष्टंभं करोति । पादान्तरं चतुरंगुलं लंघयति तदा उपवासमेकं । अथ आरोग्यः दर्पण करोति तदा षष्ठं भवति । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003152
Book TitlePrayashchitta Sangraha
Original Sutra AuthorN/A
AuthorPannalal Soni
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages200
LanguageSanskrit
ClassificationBook_Devnagari & Spiritual
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy