SearchBrowseAboutContactDonate
Page Preview
Page 100
Loading...
Download File
Download File
Page Text
________________ प्रायश्चित्तसंग्रहे तिर्यगाद्युपसर्गे अब्रम्ह सेवमानस्य मूलगुणं । मूलस्थानं दर्पण तिरश्वां शुद्धस्य जनज्ञाते । अस्या अर्थः-तिर्यंचं अब्रह्मसेवनात् पंचकल्याणं । लोकविदिते उद्धते मनोवाक्कायसंभवे मूलं याति ॥ चतुर्थ व्रतम् । उवयरणठवण लोहे दीणमुहो दाणगहणविक्खादे । संगग्गहणे खमणं छटुट्ठम मूलगुण मूलं ॥ २८ ॥ उपकरणस्थापने लोभे दीनमुखः दानग्रहणविख्याते । संगग्रहणे क्षमणं षष्ठं अष्टमं मूलगुणं मूलं ॥ अस्या अर्थः केनचित् पुरुषेण स्थापिते नष्टे सति उपवासः । लोभेन स्थापिते षष्ठोपवासः । दीनमुखो याच्यमानोऽष्टमं । बहुजनमध्येऽतीव याच्यमानो दीनः पंचकल्याणं । अवलुप्ते लुब्धो जातः मूलस्थानं याति ॥ पंचमं व्रतम् ।। रत्ति गिलाणभत्ते चउविह एकम्हि छटु * खमणाओ। उवसग्गे संठाणं चरियापवियस्स मूलमिदी * ॥ २९॥ रात्रौ म्लानभक्ते चतुर्विधे एकस्मिन् षष्ठं क्षमणं । उपसर्गे संस्थानं चर्याप्रविष्टस्य मूलमिति ॥ अस्या अर्थः-रात्रौ व्याधियुत्ते चतुर्विधाहारे षष्ठं । अथैकविधाहारे भुक्ते उपवासः । उपसर्गे रात्रिभोजी पंचकल्याणं । रात्रौ चर्याप्रविष्टः मूलं गच्छति । न तस्य पंक्तिभोजनमिति ॥ षष्ठं व्रतम् * पुष्पमध्यगतः पाठः पुस्तकाच्च्युतः । अतः स्वबुद्ध्या परिकल्प्य पूर्णीकृतः ।-सं Jain Education International For Private & Personal Use Only ___www.jainelibrary.org
SR No.003152
Book TitlePrayashchitta Sangraha
Original Sutra AuthorN/A
AuthorPannalal Soni
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages200
LanguageSanskrit
ClassificationBook_Devnagari & Spiritual
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy