________________
षट्प्राभूतेएक्कहिं फुल्लहिं फुल्लसउ
वीए फुल्ल सहासु। जिम्ब जिम्ब जिणवर पुजियइ
तिम्ब तिम्ब दुरियहं नासु ॥२॥ तथा चोक्तं समन्तभद्रस्वामिना मुनिवरेण आर्याद्वयं--
देवाधिदेवचरणे परिचरणं सर्वदुःखनिहरणं । कामदुहि. कामदाहिनि परिचिनुयादाहतो नित्यं ॥१॥ अर्हच्चरणसपर्या महानुभावं महात्मनामवदत् । भेकः प्रमोदमत्तः कुसुमेनैकेन राजगृहे ॥ २॥ अजंगमदेहा-सुवर्णमरकतमणिघटिता, स्फटिकमणिघटिता, इन्द्रनीलमणिनिर्मिता, पद्मरागमणिरचिता, विद्रुमकल्पिता, चन्दनकाष्ठानुष्ठिता वा अजंगमा प्रतिमा कथ्यते । ईदृशी प्रतिमा केषां भवति, दंसणणाणेण सुद्धचरणाणं दर्शनेन ज्ञानेन निर्मलचारित्राणां तीर्थकरपरमदेवानां । कथंभूता प्रतिमा, निग्गंथवीयराया निम्रन्था वस्त्राभरणजटामुकुटायुधरहिता, वीतरागा रागरहितभावेऽवतारिता । जिणमग्गे एरिसा पडिमा जिनमार्गे सर्वज्ञवीतरागमते ईदृशी प्रतिमा भवति ।
जं चरदि सुद्धचरणं जाणइ पिच्छेइ सुद्धसम्मत्तं । सा होइ वंदणीया णिग्गंथा संजदा पडिमा ॥ ११ ॥
यः चरति शुद्धचरणं जानाति पश्यति शुद्वसम्यक्त्वम् ।
सा भवति वन्दनीया निर्ग्रन्था सांयता प्रतिमा ॥ जं चरदि सुद्धचरणं यो मुनिश्चरति प्रतिपालपति । किं, शुद्धचरणं निरतिचारचारित्रं । जाणइ पिच्छेइ सुद्धसम्मत्तं जिनश्रुतं जानाति स्वयोग्यं वस्तु पश्यति च । शुद्धं पंचविंशतिदोषरहितं यस्य सूरेः सम्यक्त्वं भवति । सा होइ वंदणीया सा भवति वन्दनीया नमस्करणीया । निग्गंथा संजदा पडिया निर्ग्रन्था चतुर्विंशतिपरिग्रहरहिता
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org