________________
चारित्रप्राभृतं ।
अथवा सपरा-स्वकीयशासनेऽपि या प्रतिमा परा उत्कृष्टा भवति सा बन्दनीया न तु अनुकृष्टा। का उत्कृष्टा का वाऽनुत्कृष्टा इति चेदुच्यन्ते या पंचजैनाभासैरञ्चलिकारहितापि नग्नमूर्तिरपि प्रतिष्ठिता भवति सा न वन्दनीया न चार्चनीया च । या तु जैनाभासरहितैः साक्षादाहतसंधैः प्रतिष्ठिता चक्षुःस्तनादिषु विकाररहिता नन्दिसंघ-सेनसंघ-देवसंघसिंहसंधे समुपन्यस्ता सा वन्दनीया । तथा चोक्तं इन्द्रनन्दिना भट्टारकेण
चतुःसंघसंहिताया जैनं बिम्बं प्रतिष्ठितं । नमेनापरसंघाया यतो न्यासविपर्ययः ॥१॥ चतुःसंध्यां नरो यस्तु विदध्याद्भेदभावनां ।
स सम्यग्दर्शनातीतः संसारे संसरत्यरं ॥२॥ न्यासविपर्ययस्तु गुरुवचनादेवावगन्तव्यः । तथा चोक्तं श्रीवीरनन्दिशिष्यैः श्रीपद्मनन्दिभिराचार्यै:
बिम्बादलोन्नतियवोन्नतिमेव भक्तया
ये कारयन्ति जिनसद्म जिनाकृति च । पुण्यं तदीयमिह वागपि नैव शक्ता
वक्तुं परस्य किमु कारयितुं द्वयस्य ॥१॥ ये तु प्रतिमायां वस्त्राभरणादि कुर्वन्ति प्रतिष्ठावेलायां दधिसक्तमुखे बध्नन्ति तन्मतनिरासार्थ श्रीगौतमेन महामुनिना पृथ्वीवृत्तमुक्तं--
निराभरणभासुरं विगतरागवेगोदया
निरम्बरमनोहरं प्रकृतिरूपनिर्दोषतः। निरायुधसुनिर्भयं विगतहिंस्यहिंसाक्रमा
निरामिषसुतृप्तिमद्विविधवेदनानां क्षयात् ॥१॥ इक्कहि फुल्लाह माटिदेइ जु सुरनररिद्धडी। पही करइ कुसाटिवा भोलिम जिणवरतणी ॥१॥
Jain Education International
For Private & Personal Use Only
___www.jainelibrary.org