________________
बोधप्राभृतं ।
७३ बिम्ब पंचमोऽधिकारो बोधजनको विज्ञेयः । कथंभूतं जिनबिम्ब, भणियं सुवीयरायं भणितमागमे प्रतिपादितं मुष्ठु अतिशयेन वीतरागं न तु लक्ष्मीनारायणवद्रागसहितं । जिणमुद्दा जिनमुद्रा बोधकरी पष्ठोऽधिकारो वेदितव्यः । णाणमादत्थं ज्ञानमात्मस्थं सप्तमो नियोगो बोधप्राभूतस्य बोद्धव्यः । अरहंतेण सुदि जं देवं अर्हता सर्वज्ञवीतरागेण सुदृष्टमबाधं प्रतिपादितं जं देवं यो देवः, प्राकृते लिंगभेदत्वादत्र देवशब्दस्य नपुंसकत्वं सोऽयं देवाधिकारो बोधजनकोऽष्टमोऽवगन्तव्यः । तित्थमिह य तीर्थमिह च नवमोऽधिकारस्तीर्थमिह बोधप्राभतेऽवेतव्यः । अरहंतं अर्हत्स्वरूपनिरूपकोऽधिकारो दशमः प्रत्येतव्यः । पावज्ज गुणविसुद्धा प्रव्रज्या एकादशोऽधिकारो बोधप्राभूतस्य स्मर्तव्यः। कथंभूता प्रव्रज्या, गुणविशुद्धा गुणैरुज्वला । इय णायव्वा जहाकमसो इति ज्ञातव्या यथाक्रमशः । एते एकादशाधिकारा बोधप्राभतस्य चिन्तनीयाः ।
गाथाद्वयेन द्वारं बोधप्राभूतस्य कृतं । इदानीं तद्विवरणं कुर्वान्त श्रीमन्तो गृद्धपिच्छाचार्यास्तत्रायतनं निरूपयन्ति
मणवयणकायदव्वा आसत्ता जस्स इंदिया विसया । आयदणं जिणमग्गे णिद्दिदं संजयं रूवं ॥ ५॥ मनोवचनकायद्रव्याणि आसक्ता यस्य ऐन्द्रिया विषयाः ।
आयतनं जिनमार्गे निर्दिष्टं सांयतं रूपम् ॥ मणवयणकायदव्वा मनोवचनकायद्व्याणि हृदयमध्येऽष्टदलकमलाकारं मानसद्रव्यं यस्य मनो भवति । उर:प्रभूत्यष्टस्थानाश्रितं यस्य वचनं वचनशक्तिकं वाग्द्रव्यं भवति । अष्टावङ्गानि अनेकोपाङ्गानि यस्य मुनेः कायद्रव्यं भवति । आसत्ता जस्स इंदिया विसया । आसक्ताः सम्बन्धमायाता यस्य मुनेः एन्द्रिया विषयाः, इन्द्रियेषु स्पर्श
Jain Education International
For Private & Personal Use Only
___www.jainelibrary.org