________________
७२
षट्प्राभृते
शुद्धं निरतिचारं, तपश्चरणं च द्वादशविधं तपो येषां ते संयमसम्यक्त्वशुद्धतपश्चरणास्तान् संयमसम्यक्त्वशुद्धतपश्चरणान् । भूयोऽपि कथं भूतानाचार्यान्, कसायमलवज्जिदे क्रोधमानमायालो भलक्षणचतुष्कपायमलवर्जितान् कषायोत्पन्नपापरहितानित्यर्थः । अपरं कथंभूतानाचार्यान्, सुद्धे शुद्धान् षट्त्रिंशद्गुणप्रतिपालनेन निर्मलान् निष्पापान् । के ते षट्त्रिंशद्गुणा इत्याह
आचारवान् श्रुतांधारः प्रायश्चित्तासनादिदः ( १ ) । आयापायकथी दोषाभाषकोऽश्रावकोऽपि च ॥ १ ॥ सन्तोषकारी साधूनां निर्यापक इमेऽष्ट च । दिगम्बरोऽप्यनुद्दिष्टंभोजी शय्योंशनीति च ॥ २ ॥ आरोगभुक् क्रियायुक्तो व्रतवन् ज्येष्ठद्गुणः । प्रतिक्रेमी च षण्मासंयोगी च तदुद्विनिषैकः ॥ ३ ॥ द्विःपेंट तपास्तथा षट् चावश्यकौनि गुणा गुरोः । आयदणं चेदिहरं जिणपडिमा दंसणं च जिणबिंबं । भणियं सुवीयरायं जिण मुद्दा णाणमादत्थं || ३ | अरहंतेण सुदिहं जं देवं तित्थमिह य अरहंतं । पावज्ज गुणविसुद्धा इय णायव्वा जहाकमसो ॥ ४ ॥ आयतनं चैत्यगृहं जिन प्रतिमा दर्शनं च जिनबिम्बम् । भणितं सुवीतरागं जिनमुद्रा ज्ञानमत्मस्थम् ॥ अर्हता सुदृष्टं यो देवः तीर्थमिह च अर्हन् ।
nest
प्रव्रज्या गुणविशुद्धा इति ज्ञातव्या यथाक्रमशः ॥
आयदणं आयतनं ज्ञातव्यं । चेदिहरं चैत्यगृहं द्वितीयं ज्ञातव्यं । जिणपडिमा जिनप्रतिमा तृतीयोऽधिकारो बोधप्राभृते ज्ञातव्यः । दंसणं च दर्शनं च चतुर्थोऽधिकारो बोधकरो मन्तव्यः । जिणबिंबं जिन
१ ब इति ख. पुस्तके |
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org