SearchBrowseAboutContactDonate
Page Preview
Page 298
Loading...
Download File
Download File
Page Text
________________ भावप्राभृतं ! अभयदाणु भयभीरुहं जीवहं दिष्णु ण आसि । वारवारमरणहं डरहि केम्व चिराउ सुहोसि ॥ १ ॥ तथा चोक्तं— एका जीवदयैकत्र परत्र सकलाः क्रियाः । परं फलं तु सर्वत्र कृषेश्चिन्तामणेरिव ॥ १ ॥ आयुष्मान् सुभगः श्रीमान् सुंरूपः कीर्तिमान्नरः । अहिंसाव्रतमाहात्म्यादेकस्मादेव जायते ॥ २ ॥ उक्तं च द्वित्रिचतुरिन्द्रियाः प्राणा भूतास्ते तरवः स्मृताः । जीवाः पंचेन्द्रिया ज्ञेयाः शेषाः सत्वाः प्रकीर्तिताः ॥ १ ॥ असियस्य किरियवाई अक्किरियाणं च होइ चुलसीदी । सत्तट्ठी अण्णाणी वेणैया होंति बत्तीसा ॥ १३५ ॥ अशीतितं क्रियावादिनामक्रियाणां च भवति चतुरशीतिः सप्तषष्ठिरज्ञानिनां वैनयिकानां भवन्ति द्वात्रिंशत् ॥ २८३. असिसय किरियाई अशीत्यग्रं शतं क्रियावादिनां श्राद्धादिक्रियामन्यमानानां ब्राह्मणानां भवति । अक्किरियाणं च होइ चुलसीढ़ी अक्रियावादिनां इन्द्रचन्द्र नागेन्द्र गच्छोत्पन्नानां तन्दुलोदकक्काथोदकादिसमाचारीसमाश्रयिणां श्वेतपदानां प्रायः कपटानां मायाबाहुलानां चतुरशीतिः संशयिनां मिथ्यात्वभेदा भवन्ति । सत्तट्टी अण्णाणी सप्तपष्ठिरज्ञानेन मोक्षं मन्वानानां मस्करपूरणमतानुसारिणां भवति । वेणैया ति बत्तीसा विनयात् मातृपितृनृपलोकादिविनयेन मोक्षक्षेपिणां तापसानुसारिणां द्वात्रिंशन्मतानि भवन्ति । एवं त्रिषष्ठयग्राणि त्रीणि शतानि १ अभयदानं भयभीतानां जीवानां दत्तो नासि । वारवारमरणेन बिभेसि कथं चिरायुः सुभवसि ॥ २ नरः पुण्यधनेश्वरः ख. | ३ द्विजानां ख. । ४ न्ना. टी. । ५ मोक्षापिणां ख. । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003149
Book TitleShatprabhutadi Sangraha
Original Sutra AuthorKundkundacharya
AuthorPannalal Soni
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages494
LanguageSanskrit
ClassificationBook_Devnagari & Spiritual
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy