SearchBrowseAboutContactDonate
Page Preview
Page 297
Loading...
Download File
Download File
Page Text
________________ २८२ षट्प्राभृतेसंसारसमुद्रे भ्रमता पर्यटता। भोयसुहकारणहं भोगसुखकारणार्थ जिव्होपस्थसंजातसुखहेतवे । कदो य तिविहेण सयलजीवाणं दशप्राणानां त्वया आहारः कृतः त्रिविधेन मनसा वाचा वपुषा चेति सकलजीवानां चातुर्गतिकप्राणिनां । पाणिवहेहि महाजस चउरासीलक्खजोणिमज्झम्मि । उप्पज्जंतमरंतो पत्तोसि निरंतरं दुक्खं ॥ १३३ ॥ प्राणिवधैः महायशः ! चतुरशीतिलक्षयोनिमध्ये । ____ उत्पद्यमानम्रियमाणः प्राप्तोसि निरन्तरं दुःखम् ॥ पाणिवहेहि महाजस प्राणिनां वधैः कृत्वा हे महायशः !। चउरासीलक्खजोणिमज्झम्मि चतुरशीतिलक्षयोनीनां मध्ये । उप्पज्जंतमरंतो उत्पद्यमानो म्रियमाणश्च । पत्तोसि निरंतरं दुक्खं प्राप्तोऽसि लब्धवानसि निरन्तरमविच्छिन्नं दुःखं शारीरमानसागन्तुकलक्षणं । चतुरशीतिलक्षयोनीनां विवरणनिर्देशः पूर्वोक्त एव ज्ञातव्यः । जीवाणमभयदाणं देह मुणी पाणभूदसत्ताणं । कल्लाणसुहनिमित्तं परंपरा तिविहसुद्धीए ॥ १३४ ॥ जीवानामभयदानं देहि मुने! प्राणभूतसत्वानाम् । कल्याणसुखनिमित्तं परम्परा त्रिविधशुद्धया ॥ जीवाणमभयदाणं जीवानामभयदानं । देह मुणी पाणभूदसत्ताणं हे मुने ! त्वं देहि प्रयच्छ न केवलं जीवानां अभयदानं देहि-अपि तु प्राणभूतसत्वानां । किमर्थमभयदानं देहि ? कल्लाणसुहनिमित्तं तीर्थकरनामकर्मबन्धनार्थ गर्भावतारजन्माभिषेकनिष्क्रमणज्ञाननिर्वाणपंचकल्याणसुखपरंपरानिमित्तं सुखश्रेणिकारणं अभयदानमित्यर्थः । तिविहसुद्धीए त्रिविधशुद्धया मनोवचनकायनिर्मलतया अभयदानं देहि । उक्तं च Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003149
Book TitleShatprabhutadi Sangraha
Original Sutra AuthorKundkundacharya
AuthorPannalal Soni
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages494
LanguageSanskrit
ClassificationBook_Devnagari & Spiritual
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy