________________
Arun-anvr.x.vvv
बोधप्राभृतं ।
११५ संहत्यकार्येष्विति कोऽर्थः ? सुखादिकार्योत्पादकेषु मंत्रतंत्रादिसहकारिकारणेषु मिलित्वा । अथवा णिरहंकारा-णिरह-निरघं निष्पापं सर्वसावद्ययोगरहितत्वं यथा भवत्त्येवंकारा, कस्य ? शुद्धबुद्धकस्वभावस्य निजात्मस्वरूपस्य । आरात्समीपतो वर्तते कारा, चिच्चमत्कारलक्षणज्ञायकैकस्व भावटंकोत्कीर्णनिजात्मनि तल्लीना प्रव्रज्या भवतीति ज्ञातव्यं । “पापक्रियाविरमणं चरणं किलेति” वचनात् । पव्वज्जा प्रव्रज्या दीक्षा । एरिसा ईदृशी उक्तलक्षणा । भणिया गौतमस्वामिना प्रतिपादिता।
णिण्णेहा जिल्लोहा, णिम्मोहा णिव्वियार णिकलुसा। णिब्भय णिरासभावा पन्चज्जा एरिसा भणिया ॥५०॥
निःस्नेहा निर्लोभा निर्मोहा निर्विकारा निष्कलुषा ।
"निर्भया निराशभावा प्रव्रज्या ईदृशी भणिता ॥ णिण्णेहा नि:स्नेहा पुत्रकलत्रमित्रादिस्नेहरहिता, अथवा तैलाद्यभ्यङ्गरहिता निःस्नेहा । णिल्लोहा हे मुने ! हे. तपस्विन् ! तवेदं वस्तु वस्त्रादिकं दास्यामि मम गृहे भिक्षा गृह्यतां भवतेति लोभरहिता, अथवा सुवर्णरजतताम्रायस्त्रपुनागादिभाजनविवर्जिता निर्लोभा । णिम्मोहा दर्शनमोहो मिथ्यात्वं त्रिविधं चारित्रमोहः पंचविंशतिप्रकारस्ताभ्यामपि रहिता निर्मोहा, अथवा निश्चिताया अकलंकदेवसमन्तभद्रविद्यानन्दिप्रभाचंद्रादिभिस्तार्किकैर्निधारिताया माया प्रत्यक्षपरोक्षलक्षणोपलक्षिताया प्रमाणद्वयस्य ऊहो वितर्को विचारणा यस्यां प्रव्रज्यायां सा निर्मोहा। णिवियार निर्विकारा वस्त्राभरणादिवेषविकाररहिता निर्विकारा, अथवा निश्चितो विचारो विवेको भेदज्ञानं यस्यां सा निर्विचारा, आत्मा पृथक् कर्म पृथक् इति विवेक पेता। उक्तं च
नि. टी.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org