SearchBrowseAboutContactDonate
Page Preview
Page 129
Loading...
Download File
Download File
Page Text
________________ ११४ षट्प्राभूतेकुरूपिणो हीनाधिकाङ्गस्य कुष्ठादिरोगिणश्च प्रव्रज्या न भवति । णिम्माणासा निर्माना अष्टमदरहिता, निराशा आशारहिता। उक्तं च आशागतः प्रतिप्राणि यस्मिन् विश्वमणूपमं । कस्य किं कियदायाति वृथा वो विषयैषिता ॥१॥ अथवाआशा दासीकृता येन तेन दासीकृतं जगत् । आशाया यो भवेद्दासः स दासः सर्वदेहिनाम् ॥ १ ॥ निरश्वा अश्वरहिता तदुपलक्षणं गजवृषादीनां । अराय रागरहिता, अथवा प्रव्रज्यायां राजभिः सह स्नेहादिकं न कर्तव्यं, तदुपलक्षणं मंत्र्यादीनां प्रत्यक्षनरकपातवद्वयाख्यातत्वात् , केचिच्च जिनधर्मप्रभावनार्थ मुनीनां सुस्थित्यर्थं च तन्निषेधं न कुर्वन्ति म्लेच्छादिपीडानिराकरणहेतुत्वात् । णिदोसा अप्रीतिलक्षणद्वेषरहिता, अथवा वातपित्तश्लेष्मादिदोषरहितस्य प्रव्रज्या भवतीति निर्दोषा। णिम्मम निर्ममा ममति शब्दोऽव्ययः निर्गतं ममेति यस्यां प्रव्रज्यायां सा निर्ममा, अथवा मश्च मा च ममे निर्गते ममे द्वे यस्याः सा निर्ममा मद्यमांसमधुमकारत्रयरहिता लक्ष्मीस्वीकाररहिता चेत्यर्थः । तथा चोक्तं-- अकिंचनोग्हमित्यास्स्व त्रैलोक्याधिपतिर्भवेः। योगिगम्यं तव प्रोक्तं रहस्यं परमात्मनः ॥१॥ णिरहंकारा अहङ्काररहिता कर्मोदयप्रधाना सुखं वा दुःखं वा जीवस्य कर्मोदयेन भवति मयेदं कृतमित्यहङ्कारो न कर्त्तव्यमित्यर्थः । तथा चोक्तं समन्तभद्रेण तार्किकशिरोमणिना-- अलंध्यशक्तिर्भवितव्यतेयं हेतुद्वयाविष्कृतकार्यलिंगा। अनीश्वरो जन्तुरहं क्रियातः संहत्यकार्येष्विति साध्ववादि ॥१॥ १ य आशायाः टी. । २ नि. टी. । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003149
Book TitleShatprabhutadi Sangraha
Original Sutra AuthorKundkundacharya
AuthorPannalal Soni
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages494
LanguageSanskrit
ClassificationBook_Devnagari & Spiritual
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy