________________
बोधप्राभृतं ।
१०१
औदारिकमिश्रकाययोगः कार्मणकाययोगश्चेति सप्तयोगाः। वेए स्त्रीपुंन्नपुंसकवेदत्रयमध्येऽर्हतः कोऽपि वेदो नास्ति । कसाय पंचविंशतिकषायाणां मध्येऽर्हतः कोऽपि कषायो नास्ति । णाणे य पंचज्ञानानां मध्येऽर्हतः केवलज्ञानमेकं । संजम सप्तानां संयमानां मध्येऽर्हतः संयम एक एव यथाख्यातचारित्रं । दंसण चतुर्णी दर्शनानां मध्ये दर्शनमेकमेव केवलदर्शनं । लेसा षण्णां लेश्यानां मध्येऽर्हतो लेश्या एकैत्र शुक्ललेश्या । भविया भव्यद्वयमध्येऽर्हन् भव्य एव । सम्मत्त षण्णां सम्यक्त्वानामर्हतः सम्यक्त्वमेकमेव क्षायिकसम्यक्त्वं । संज्ञिद्वयमध्येऽर्हन् संज्ञी ह्येक एव । आहारे आहारकद्वयमध्येऽर्हत आहारकानाहरकद्वयं ।
आहारो य सरीसे तेह इंदियआणपाणभासा य । पज्जत्तिगुणसमिद्धो उत्तमदेवो हवइ अरुहो ॥ ३४॥
आहारः च शरीरं तथा इन्द्रियानप्राणभाषाश्च ।
पर्याप्तिगुणसमृद्धः उत्तमदेवो भवति अर्हन् ॥ आहारो य सरीरो आहारः समयं समयं प्रत्यनन्ता: परमाणवोऽनन्यजनसाधारणाः शरीरस्थितिहेतवः पुण्यरूपाः शरीरे सम्बन्धं यान्ति नोकर्मरूपा अहर्त आहार उच्यते न वितरमनुष्यवद्भगवति कवलाहारो भवति तस्मानिद्राग्लानिरुत्पद्यते कथं भगवानर्हन् देवता कथ्यते । कवलाहारं भुञ्जानो मनुष्य एव । तथा चोक्तं समन्तभद्रेण भगवतामानुषी प्रकृतिमभ्यतीतवान् देवतास्वपि च देवता यतः । तेन नाथ ! परमोऽसि देवता श्रेयसे जिनवृष ! प्रसीद नः ॥१॥
क्षुद्वेदनायां कवलाहारं भुंजानो भगवान् कथमनन्तसौख्यवानुच्यते वेदनायां सुखच्छेदत्वादित्यादि प्रमेयकमलमार्तण्डादिषु कवलाहारस्य
१ इंदियमण इति पाठान्तरं ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org