SearchBrowseAboutContactDonate
Page Preview
Page 46
Loading...
Download File
Download File
Page Text
________________ टीकासहितं । | काया: प्रतिसंक्रमे तद्विषयस्य चितिशक्तिः कथमप्रतिमंत्रमैति चिन्त्यं, यथैव हि विषयं प्रतिनियतं दर्शयन्ती बुद्धिश्चितिशक्तये संक्रामति तथा क्रमेण चितिशक्तिरपि पश्यंती विशेषाभावात् कथमन्मथा क्रमेण दर्शितविषया स्यात् । चिच्छक्तिरप्रतिसंक्रमैव सर्वदा शुद्धस्वादिति चेत्, न शुद्धात्मनोSपि स्वशुद्धपरिणामं प्रतिमंक्रपाविरोधात्तत्राशुद्धपरिणामसंक्रमस्यैवासंभवात् । शुद्धपरिणामेन पि चितिशक्तिरप्रतिसंक्रमानंतत्वादिति चेत्, न प्रकृत्या व्यभिचारात् । साऽपि ह्यनंता सांतत्वेऽपि नित्यत्वविरोधात् । प्रकृतेर्महदादिपरिणामसद्भावाप्रतिसंक्रमः सिद्धयेन पुनश्चिच्छक्ते र परिणामित्वादिति चेत्, न तस्या अपि दृश्यदर्शनपरिणामसद्भावसिद्धेः । एतेन चिच्छतेरप्रतिसंक्रमे साध्ये परिणाम रहितत्वे सत्यनं तत्वादिति हेतोरसिद्धत्वं व्यवस्थापितम् । स्यान्मतं, चिच्छक्तिरपरिणामिन्यप्रतिसंक्रमा शुद्धत्वे सत्यनैतत्वात्परसंग्रह विषयसत्तावदिति । तदप्यसत् । सत्ताया गुश्रीभूत परिणामसंक्रमाया एव परसंग्रहविषयायाः स्याद्वादिभिरभीष्टत्वात् माध्यसमत्वादुदाहरणस्य । न हि निराकृतपरिणामसंक्रमं किंचिद् द्रव्यं द्रव्यार्थिकनयं प्रस्थापयति दुर्नयत्वप्रसंगात् ब्रह्मवादवत् । नाऽपि स्वपरिणामभिन्नमुपचरितपरिणामसंक्रममुररीक्रियते यतस्तदुदाहरणीकृत्य चिच्छक्तिस्तथाविधा साध्येति । ननु च परेषां दृश्यम्य द्रष्टुरत्यंतभेदात् दृश्ये परिणामिनि प्रतिसंक्रमो द्रष्टुरिति चिच्छाक्तिलक्षणे शुद्धात्मनि उप " Jain Education International ३१ For Private & Personal Use Only www.jainelibrary.org
SR No.003148
Book TitleYuktyanushasanam
Original Sutra AuthorN/A
AuthorVidyanandacharya, Indralal Pandit, Shreelal Pandit
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages198
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy