________________
२४
युक्त्यनुशासनं। - "भूरिगुणोदधेस्ते । अणिष्ठमप्यंशमशक्नुवन्तो वक्तुं जिन त्वां किमिव स्तुयाम।" इति, तर्हि भूरिगुणोदधेरनन्तगुणसमुद्रस्य ममाणिष्ठमप्यंशं सूक्ष्मतममपि गुणं ववतुं यदि न शक्नुवन्ति भवन्तः किमप्युपमानमपश्यन्तस्तदा किमिति स्तोतारो भवन्तीति भगवता पर्यनुयुक्ता इव पाहुः-- तथापि वैयात्यमुपेत्य भक्त्या
स्तोताऽस्मि ते शक्त्यनुरूपवाक्यः । इष्टे प्रमेयेऽपि यथास्वशक्ति
किन्नोत्सहन्ते पुरुषाः क्रियाभिः॥३॥ "तथाऽपि वैयात्यमुपेत्य भक्तया स्तोतास्मि ते शत्तयनुरूपवाक्यः ।" तथाऽपि तेऽणिष्ठमप्यंशं वक्तुमशक्नुवन्नपि वैयात्यं धाष्टर्यमुपेत्योपगम्य भक्त या हेतुभूतया ते वीरस्य स्तोताऽस्मि शक्तयनुरूपवाक्यः सन्नहमिति संबन्धः परेऽप्येवमुत्सहमानाः सन्तीति दर्शनार्थमिदमुक्तम् ।
"इष्टे प्रमेयेऽपि यथास्वशक्ति कि नोत्सहन्ते पुरुषाः क्रियाभिः ।" इति उत्सहन्त एवेत्यर्थः । यदि यथास्वशक्ति स्वेष्टे प्राप्येर्थे प्रवृत्यादिक्रियाभिः समुत्सहमानपुरुषवत् भवन्तः स्तुति वक्तुं प्रवर्तन्ते तदा कियत वक्तुं शक्ता इत्याह--- त्वं शुद्धिशक्त्योरुदयस्य काष्ठां
तुलाव्यतीतां जिन ! शान्तिरूपाम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org