SearchBrowseAboutContactDonate
Page Preview
Page 28
Loading...
Download File
Download File
Page Text
________________ टोकासहितं । वेदा सर्वेषां युक्तिशास्त्राविरोधिवाक् सिद्ध इत्यर्थः । ततोऽयं समुदायार्थः, स्तुतिगोचरो भगवान्वीरः परमात्मा ऋद्धमानत्वात् यस्तु नैवं स न वर्द्धमानो यथा रथ्यापुरुषस्तथा चायं भगबानिति । तद्वद्वर्धमानो भगवान् विशीर्णदोषाशयपाशवन्धत्वात यस्तु नेत्थं स न तथा यथा मिथ्यादृक् तथा च भगवान् इति। विशीर्णदोषाशयपाशबंधो भगवान् कीर्त्या महत्या भुवि वर्द्धमानत्वात् यस्तु नैवंविधः स न तथा यथा प्रसिद्धो नाप्तः, की या महत्या भुवि वर्द्धमानश्च भगवान् तस्माद्विशीर्णदोषाशयपाशबंध इति केवलव्यतिरेकी हेतुरन्यथोपपत्तिनियनिश्चयकलक्षणत्वात् स्वसाध्यं साधयत्येव तथाऽऽप्तमीमांसायां व्यासतः समर्थितत्वात् । किंलक्षणा स्तुतिर्यद्गोचरत्वं मां नेतुमिच्छन्ति भवन्त इति भगवता प्रश्ने कृत इव सून्यः प्राहुः-- याथात्म्यमुल्लय गुणोदयाख्या लोके स्तुतिभूरिगुणोदधेरते। अणिष्ठमप्यंशमशक्नुवन्तो वक्तुं जिन त्वां किमिव स्तुयाम॥२॥ "याथात्म्यमुलंघ्य गुणोदयाख्या लोके स्तुति:" इति चतुराशीतिर्लक्षाणि गुण स्तेषां गुणानां याथात्म्यं यथावस्थितस्वभावस्तदुल्लंघ्य गुणोदयस्याख्या लोके स्तुतिरिति लक्ष्यते यद्येवं तदा स्तुतिकतरस्तावन्तः किं शक्ताः भगवता इति इर्यनुयुक्ताः प्राहुः Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003148
Book TitleYuktyanushasanam
Original Sutra AuthorN/A
AuthorVidyanandacharya, Indralal Pandit, Shreelal Pandit
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages198
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy