________________
युक्तयनुशासनं। काले ममेन्द्रियबलादासीदिति वित्तिरपि कथमन्यथोपपद्यत गबाश्वविकल्पयोर्युगपद्विरोधात् । नैवं वित्तिः सत्येति चेत् , न तयोः क्रमादेवाशूत्पत्तेयौंगपद्याभिधानात् । तत्त्वतो ज्ञानद्वयस्य सोपयोगस्य युगपदसंभवात्, कचिदुपयुक्तानुपयुक्तज्ञानयोगपद्यवचनेपि विरोधाभावात् । तर्हि गोदर्शनमनुपयुक्तमश्वविकल्पस्तूपयुक्तस्ततस्तयोर्युगपद्भावो युक्त एवेति चेत्, न किंचि. दनिष्टं स्याद्वादिनां। तथाऽनुपयुक्तवेदनस्य निर्विकल्पकत्वस्यापीष्टत्वात् । कचित्किंचिदुपयुक्तं हि ज्ञानं व्यवसायात्मकमिप्यते सर्वथाऽनुपयुक्तस्याव्यवसायात्मकस्य तत्वज्ञानत्वविरोधात् । न चैवं केवलज्ञानमतत्त्वज्ञानं प्रसज्येत तस्यापि नित्योपयुक्तत्त्वेन व्यवसायात्मकत्वोपगमात् । ननु च वीतरागाणां कचित्पत्त्यसंभवात् सर्वदौदासीन्यादुपयोगाभावादनुपयुक्तमेव ज्ञानमनुमन्तव्यम् । तथा च निर्विकल्पकं तत्सिद्धं । तद्वदक्षादिज्ञानमपि निर्विकल्पकं सत् तत्वज्ञानं भविष्यतीति केचित् , तेऽपि न युक्तिवादिनः, योगज्ञानस्यानुपयुक्तत्वे सर्वपदार्थप्रतिभासनस्य विरोधात् , तस्यैवोपयोगरूपत्वाद् , युगपत्सर्वार्थग्रहणमेव झुपयोगः सर्वज्ञविज्ञानस्य, न पुनर्जिहासोपादित्साभ्यां हानोपादानलक्षणा प्रवृत्तिः, तस्या गगद्वेषोपयोगनिबंधनत्वात् प्रलीनरागद्वेषस्य सर्वज्ञस्य तदसंभवात् । कथमेवं सर्वज्ञविज्ञानं निष्फलं न भवेदिति चेत् , न तदमिन्नस्य फलस्य सकलाज्ञाननिवृत्तिलक्षणस्य सद्भावात , सर्वस्य ज्ञानस्य साक्षादज्ञाननितिफलत्वाद्धानोपादानोपेक्षाविषयस्य परंपराज्ञानफलत्वम
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org