________________
युक्त्यनुशासन। ते तस्य संयोगवदनेकस्थावाभावात् । विशेषवदनेकापेक्षयैव तदभिव्यक्तेः कृशत्वाधपेक्षया स्थूलत्वादिवत् । न च समानपरिणामोऽर्थानामपारमार्थिक एवापेक्षिकत्वादिति निश्चेतुं शक्यं संविदॆशयेन व्यभिचारात् । न हि वृद्धाक्षसंवेदनापेक्षया कुमारसंवेदनानां विशदतरत्वमापेक्षिकं न भवति तदविशेपप्रसंगात् । नाऽपि तदपारिमार्थिकं येन न व्यभिचार: स्यात्। यदातु परिणामपरिणामिनोरभेदनयप्राधान्यात्कथंचित्तादात्म्य प्रतिपाद्यते तदा द्रव्येषु द्रव्यत्वसमानपरिणामो द्रव्यस्वरूपमेव, तस्य च द्रव्यत्वपरिणामस्य सत्त्वादिसमानपरिणामान्तरं द्रव्यस्यैव प्रतीयते ततोऽर्थान्तरभूनस्य द्रन्यत्वपरिणामस्यासंभवादिति कुतोऽनवस्थाऽवकाशं लभते ? यदि वा येष्वेव द्रव्येषु द्रव्यत्वसमानपरिणामस्तेष्वेव सत्त्वादिपरिणामान्तराणि व्यवतिष्ठते, केवल तैरिवैकार्थसमवायबलात् द्रव्यत्वसमानपरिणामो व्यपदिश्यते संख्यादिगुणान्तरैरिव रूपादिगुणा इति सर्व निरवचं भेदाभेदोभयनयप्रधानभावाप्तिसमानपरिणामलक्षणसामान्यविषक्तभेदविधिव्यवच्छेदविधायित्वनिश्चयाद्वाक्यस्यान्यथा निर्विषयत्वप्रसंगात् । यथा चाभेदबुद्धेद्रव्यत्वादि. व्यक्तेरविशिष्टता स्यात् तथा व्यावृत्तिबुद्धश्च विशिष्टता ते भगवतः स्याद्वाददिवाकरस्येति संप्रतीयते, विसदृशपरिणामलक्षणो हि विशेषस्तद्विषक्तताविशिष्टता सा चेदमस्माद्यावृत्तमिति व्या
१ प्रथमपुस्तके 'अनेकथीत्वाभावादिति पाठः । २ द्वितीयपुस्तके "भेदनयादानात् ।" इति पाठः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org