SearchBrowseAboutContactDonate
Page Preview
Page 172
Loading...
Download File
Download File
Page Text
________________ टोकासहितं। सर्वव्यक्तिषु सामान्यस्यैकस्यानंशस्य देशकालादिभिन्नासु युगपत्तिविरोधेन बाधितस्यान्वयबुद्धया विषयीक्रियमाणस्यासंभवादस्याप्यन्वयप्रत्ययस्यानुपचारितत्वासिद्धेःसमर्थनात् । नन्वेवं सदृशपरिणामरूपस्यापि सामान्यस्यान्वयबुद्धेः कुतः प्रसिद्धिः समानपरिणामेष्वप्यन्वय बुद्धः समानपरिणामान्तरप्रसंगादनवस्थायाः बाधिकायाः संभवात् , समानपरिणामस्यैकैकत्र भेदे बाधासंभवात्तस्यानेकस्थत्वादिति चेत् , न, समानपरिणामानामपि समानपरिणामान्तरप्रतीतेस्तेषामनन्तत्वादनवस्थानवकाशात् । यथैव हि घटेषु घटाकारतमानपरिणामः प्रत्येकमपरघटपरिणामापेक्षः प्रतीयते "पपाना एते घटाः" इति तथा घटसमानपरिणामेष्वपि मृदाकारसमानपरिणामान्तरं प्रतिभासत एव 'मृदाकारेण समाना एते घटसमानपरिणामाः' इति तेष्वपि मृदाकारसपानपरिणामान्तरेषु पार्थिवाकारसमानपरिणामान्तराणि पार्थिवाकारेण समाना एते मृदाकारसमानएरिणामा इति प्रतिमासनात् । पार्थिवाकारसमानपरिणामेष्वपि मूर्त्तत्वाकारसपानपरिणामान्तराणि, तेष्वपि द्रव्यत्वाकारसमानपरिणामान्तगणि, तेष्वपि रूत्वपरिणामान्तराणि, तेष्वपि वस्तुत्वपरिणामान्तगण, तेष्वपि प्रमेयत्वपरिणामान्तराणि, तेष्वपि वाच्यत्वरिणामान्तराणि, तेष्वपि ज्ञेयत्वपरिणामान्तराणि तेष्वपि पुन: सत्यादिपरिणामान्तराणि प्रतिचकासंति भेदनय प्राधान्यान तेषां वलयवदादिरंनोवा विद्यते यतोऽनवस्था बाधिका स्यात् । नाप्येकैकत्र भेदे समानपरिणामो विरुध्य Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003148
Book TitleYuktyanushasanam
Original Sutra AuthorN/A
AuthorVidyanandacharya, Indralal Pandit, Shreelal Pandit
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages198
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy