SearchBrowseAboutContactDonate
Page Preview
Page 166
Loading...
Download File
Download File
Page Text
________________ टीकासहितं । निशायितस्तैः परशुः परघ्नः स्वमूर्ध्नि निर्भेदभयानभिज्ञैः । वैतण्डिकैर्यैः कुसृतिः प्रणीता मुने ! भवच्छासनदृक्प्रमूढैः ॥ ५९ ॥ टीका - परपक्षदूषण प्रधानैवैतण्डिकैः संवेदनाद्वैतवादिभिर्यैः कुसृतिः कुत्सिता गतिः प्रतीतिः प्रणीता । मुने ! भगवन् ! भवतः शासनस्य स्याद्वादस्य दृशि प्रमूढैस्तैः स्वमूनि निभेदभयस्यानभिज्ञैर्निर्भेदभयमजानद्भिः परघ्नः परशुर्निशायित इति वाक्यार्थघटना । यथैव हि कैश्चित्परशुः परघाताय निशायितः स्वमूर्ध्नि भेदाय च प्रवर्त्तत इति तद्भयानभिज्ञास्ते, तथैव वैतण्डिकैः परपक्षनिराकरणायमानैः प्रणीयमानो न्यायः स्वपक्षमपि निराकरोतीति तेऽपि स्वपक्षघातभयानभिज्ञा एव । ते हि स्याद्वादन्यायनायकस्य गुरोः शासनदृक्ममूढाः किं जानंते दर्शन मोहोदयाक्रान्तान्तः करणत्वादिति विस्तरतस्तत्त्वार्यालङ्कारे प्रतिपत्तव्यं । ननु च यदुक्तं " न च स्वयं साधनरिक्तसिद्धिः" इति । तत्र, संविदद्वैतस्यापि सिद्धिर्मा भूत्सर्वाभावस्य शून्यतालक्षणस्य विचारबलादागतस्य परिहर्तुमशक्यत्वादिति केचिदाचक्षते तान्मत्याहु: भवत्यभावोऽपि च वस्तुधर्मो भावान्तरं भाववदर्हतस्ते । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003148
Book TitleYuktyanushasanam
Original Sutra AuthorN/A
AuthorVidyanandacharya, Indralal Pandit, Shreelal Pandit
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages198
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy